Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २४ मे-मासः (हि.स.)। छत्तीसगढ-राज्यस्य दन्तेवाडा-जनपदस्य १७ ग्रामेषु वञ्चित-समुदायानां बालकानां सर्वाङ्गीण-विकासस्य उद्देश्येन २५-दिवसीयानां २० ग्रीष्मकालीन-शिविराणाम् आरम्भः कृतः। एतेषां शिविराणां उद्देश्यं ग्रीष्मावकाश-काले बालकान् शिक्षया, सृजनात्मक-क्रियाभिः तथा क्रीडाभिः संयोज्य तेषां व्यक्तित्वस्य कौशलस्य च विकासं कर्तुम् अस्ति।
इस्पात-मन्त्रालयस्य अनुसारम् एष: विशेष-प्रयत्न: २० मे-मासात् १५ जून्-२०२६ पर्यन्तं राष्ट्रीय-खनिज-विकास-निगमेन (एनएमडीसी) शिक्षा-सामुदायिक-विकास-क्षेत्रे कार्यरतया डब्ल्यूओएससी-संस्थया सह सञ्चाल्यते। कार्यक्रमस्य मुख्य-लक्ष्यं ग्रामीण-आदिवासी-क्षेत्राणां बालकेभ्यः सकारात्मकं सृजनात्मकं च वातावरणं प्रदातुम् अस्ति, येन ते आत्मविश्वासेन नूतन-शिक्षया च सह अग्रे गन्तुं शक्नुवन्ति।
अस्य अभियानस्य अन्तर्गतं प्रायः १७०० बालकान् अनुभवात्मक-शिक्षया, कला-संगीत-हस्तशिल्प-क्रीडा-क्रियाभिश्च संयोजयितुं लक्ष्यं निर्धारितम् अस्ति। अधिकांश-ग्रामेषु शिविराणि आरब्धानि सन्ति, बालकानां वर्धमान-सहभागितां दृष्ट्वा अतिरिक्त-समूहानाम् आरम्भस्य सज्जा अपि क्रियते।
वर्तमानकाले प्रत्येकस्मिन् ग्रामे प्रतिदिनं ३० तः ४० पर्यन्तं बालकाः शिविरेषु सहभागितां कुर्वन्ति। बालकाः प्रतिदिनं त्रि-चतुर-होरापर्यन्तं विविधासु क्रियासु भागं गृह्णन्ति। एतासु क्रियासु अध्ययनस्य सह हस्तशिल्प-निर्माणम्, चित्रकला, संगीत-कार्यशालाः तथा सृजनात्मक-अभ्यासाः अपि अन्तर्भवन्ति। ततः परं बालकाः फ्रिस्बी, कबड्डी तथा खो-खो इत्यादिषु पारम्परिक-क्रीडासु भागं गृहीत्वा शारीरिक-मानसिक-रूपेण सक्रियाः भवन्ति। दिवसस्य अन्ते बालकेभ्यः पौष्टिकं स्वास्थ्यकरं च जलपानम् अपि प्रदीयते।
शिविराणां माध्यमेन बालकेषु दल-भावना, अनुशासनम्, संवाद-क्षमता तथा नेतृत्व-कौशलस्य विकासाय विशेष-ध्यानं दीयते। आयोजकानां मतम् अस्ति यत् एतादृशाः कार्यक्रमाः बालकेषु आत्मविश्वासं वर्धयन्ति तथा तान् सामाजिक-रूपेण सुदृढान् आत्मनिर्भरांश्च भवितुं प्रेरयन्ति।
एनएमडीसी-संस्थया उक्तं यत् शिक्षा-सामुदायिक-विकासेन सम्बद्धा एषा पहलः ग्रामीण-आदिवासी-क्षेत्राणां बालकेभ्यः नूतनां दिशां दातुं प्रयत्नः अस्ति। संस्थायाः मतम् अस्ति यत् बालकेभ्यः सृजनात्मकं सकारात्मकं च वातावरणं प्रदाय तेषां उज्ज्वल-भविष्यस्य सुदृढमाधारं स्थापयितुं शक्यते।
स्थानीय-स्तरे अपि अस्य प्रयत्नस्य विषये उत्साहः दृश्यते। अभिभावकाः ग्रामीणाश्च वदन्ति यत् एते शिविराः बालकेभ्यः केवलं मनोरञ्जनं न, अपितु शिक्षणस्य आत्मविश्वास-विकासस्य च उत्तमम् अवसरं प्रददति। विशेषज्ञानां अनुसारम् एतादृश्यः क्रियाः बालकानां मानसिक-सामाजिक-भावनात्मक-विकासे महत्त्वपूर्णां भूमिकां निर्वहन्ति।
Hindusthan Samachar / Divya Ranjan