नवाचार-दीप्त्या प्रकाशमानः जातः डायट-परिसरः, १०६ शिक्षकाः सम्मानिताः
सुपौल-नगरम्, २४ मे-मासः (हि.स.)। शिक्षा-क्षेत्रे रचनात्मक-प्रेरणादायक-कार्याणि कुर्वतां शिक्षकाणां सम्मानाय रविवासरे जिला-शिक्षा-प्रशिक्षण-संस्थानस्य (DIET) बसहा-परिसरः उत्साह-आदर-गौरव-पूर्ण-परिवेशेन आप्लावितः दृश्यते स्म। ‘द बिहार टीचर्स हिस्ट्री
बैठक


बैठक


बैठक


सुपौल-नगरम्, २४ मे-मासः (हि.स.)। शिक्षा-क्षेत्रे रचनात्मक-प्रेरणादायक-कार्याणि कुर्वतां शिक्षकाणां सम्मानाय रविवासरे जिला-शिक्षा-प्रशिक्षण-संस्थानस्य (DIET) बसहा-परिसरः उत्साह-आदर-गौरव-पूर्ण-परिवेशेन आप्लावितः दृश्यते स्म। ‘द बिहार टीचर्स हिस्ट्री मेकर्स’ इति संस्थायाः तत्वावधान-मध्ये आयोजिते समारोह-कार्यक्रमे १०६ नवाचारी-शिक्षकाः प्रशस्ति-पत्रैः सह सम्मानिताः भूत्वा तेषां उपलब्धयः अभिनन्दिताः।

कार्यक्रमस्य शुभारम्भः जनपद-पदाधिकारी सावन कुमार, जनपद-शिक्षा-पदाधिकारी संग्रामसिंह:, DIET-प्राचार्य: अखलाक खां, व्याख्यातारः डॉ.सुमितकुमारः, निरंजनकुमारः, सुषमा श्रेष्ठा, आफताब आलमः, मदन कुमारः तथा डॉ.रणधीरकुमार: राणा इत्येतेषां संयुक्त-रूपेण दीप-प्रज्वलनेन कृतः। दीप-ज्योतिषा सहैव शिक्षायां नवाचारस्य उत्कृष्टतायाश्च नव-संकल्पस्य आरम्भः अभवत्।

समारोहम् उद्दिश्य जनपद-पदाधिकारी सावनकुमार: उक्तवान् यत् शिक्षकाः केवलं बालकेभ्य: शिक्षां न ददति, अपि तु समाजाय नूतनां दिशां दातुं महत्त्वपूर्णं कार्यं कुर्वन्ति। सः अवदत् यत् नवाचाराधारित-शिक्षा अद्यत्वे समयस्य महती आवश्यकता अस्ति। ये शिक्षकाः स्वप्रयासैः विद्यालयेषु सकारात्मक-परिवर्तनं आनयन्ति, ते वस्तुतः समाजस्य प्रेरणास्रोतांसि सन्ति।

जनपद-शिक्षा-पदाधिकारी संग्रामसिंहः अवदत् यत् सर्वकारी-विद्यालयेषु कार्यरताः शिक्षकाः सीमित-संसाधनानां मध्ये अपि यत् समर्पणेन रचनात्मकतया च कार्यं कुर्वन्ति, तत् अत्यन्तं प्रशंसनीयम्। तेषां नवाचारैः छात्रेषु शिक्षण-क्षमता, आत्मविश्वासः तथा विद्यालय-प्रति अनुरागः वर्धते।

DIET-प्राचार्य अखलाक खां उक्तवान् यत् शिक्षायां परिवर्तनस्य वास्तविक-शक्ति: शिक्षकाः एव भवन्ति। यदा शिक्षकाः नूतनां चिन्तन-धारां तथा आधुनिक-प्रौद्योगिकीं स्वीकरोन्ति, तदा शिक्षा-व्यवस्थायां सकारात्मक-परिवर्तनं स्वतः दृश्यते। सः सर्वान् शिक्षकान् निरन्तर-नवाचाराय आहूतवान्।

कार्यक्रम-काले मंच-संचालनं उद्घोषणं च समारोहं जीवंतम् अकरोत्। प्रमंडल-अध्यक्षः रामकृष्णः तथा सुपौल-जनपद-अध्यक्षः नरेशकुमार: निराला स्वीय-प्रभावशालि-प्रस्तुत्या उपस्थितानां मनांसि आकृष्टवन्तौ।

सम्मानित-शिक्षकेषु रिंकी कुमारी, सरगम कुमारी, अर्चना कुमारी, गणेशकुमारः, ममता कुमारी, मनोहरदासः, अवधेशकुमारः, डॉ.सुषमादयाल:, रीता कुमारी, किरण मेहता, किरणराउत:, मनुरमण:, कुमारी आनंद भारती, श्यामसुंदरकुमारः, संगीता कुमारी, अलख अकेला, राजीव झा, बब्बू कुमार मंडल, संजयकुमारः, प्रमोदकुमारः, रूबीयादवः तथा सूर्यनारायणयादवः इत्यादयः अन्ये च शिक्षकाः सम्मानिताः।

समारोहस्य अन्ते व्याख्याता डॉ.सुमितकुमारः उक्तवान् यत् सर्वैः शिक्षकैः पूर्ण-मनःसमर्पणेन गतिविधि-आधारित-शिक्षण-कार्यं कर्तव्यम्। एषः टीबीटी-मञ्चः रचनात्मकतां वर्धयति। कविता-भाषण-नाटक-गीत-शिक्षण-प्रस्तुति इत्यादिभिः माध्यमैः छात्राणां सुप्त-प्रतिभाः प्रकाश्यन्ते। उत्तम-शिक्षक-उत्तम-व्यक्तित्व-निर्माणाय संवाद-कौशलं, नेतृत्व-क्षमता, आत्मविश्वासः च आवश्यकाः सन्ति, यानि सर्वाणि अपि टीबीटी-मञ्चेन विकसितानि भवन्ति। सभागारे करतल-ध्वनयः गुञ्जमानाः अभवन्, शिक्षकेषु योगदानं प्रशंसितम्। कार्यक्रमेन एषः सन्देशः प्रदत्तः यत् शिक्षायां नवाचारः एव भविष्यस्य सुदृढम् आधारम् अस्ति, शिक्षकाः एव परिवर्तनस्य वास्तविक-शिल्पिनः सन्ति।

Hindusthan Samachar / Divya Ranjan