Enter your Email Address to subscribe to our newsletters

काठमांडूः, 24 मईमासः (हि.स.)।
नेपालचीनयोः मध्ये नियमितसीमासमन्वयोपवेशनं रसुवाजिलास्थिते धुन्चेस्थिते जिलाप्रशासनकार्यालये रविवासरे सम्पन्ना अभवत्। नेपालपक्षतः प्रतिनिधिमण्डलस्य नेतृत्वं रसुवायाः प्रमुखजिलाधिकारी राजेशपन्थी अकुर्वन्, चीनदेशीयाधिकारिणां नेतृत्वं च चुजिनशुन अकुर्वन्। बैठके केरूङ्क्षेत्रस्य विषयः उत्थापितः। अधिकारिणां अनुसारेण बैठके सीमासुरक्षाया दृढीकरणं, व्यापारस्य सुगमीकरणं, पारस्परिकसमन्वयवृद्धिः, सीमापारापराधनियन्त्रणं तथा सीमावर्तीक्षेत्रेषु नागरिकानां सुरक्षानिश्चयकरणम् इत्यादिविषयेषु चर्चा अभवत्। उक्तं यत् एषा संगोष्ठी नेपालचीनयोः मध्ये दीर्घकालात् प्रचलितानां मैत्रीपूर्णसम्बन्धानां, पारस्परिकविश्वासस्य तथा सहयोगस्य अधिकसुदृढीकरणे उपयोगिनी अभवत्। उभयपक्षाभ्यां हिमालयसीमावर्तीक्षेत्रेषु निवसतां जनानां कृते व्यापारयातायातदैनिकजीवनानां सुगमीकरणाय प्रतिबद्धता व्यक्ता। नेपालदेशेन केरूङ्क्षेत्रे कार्यरतनेपालीनागरिकानां सुरक्षा, स्वास्थ्यसेवासु प्रवेशः तथा आवश्यकसहयोगस्य सुनिश्चितीकरणाय आग्रहः कृतः।
उभयदेशाभ्यां सीमाक्षेत्रे अवैधव्यापारस्य आपराधिकक्रियाकलापानां च निरोधनार्थं स्वस्वसुरक्षासंस्थानयोः मध्ये समन्वयस्य निगराण्याश्च वृद्ध्यर्थं सहमति व्यक्ता। रसुवाजिलातः बहिर्गतानां नेपालीवाहकानां आवश्यकप्रक्रियापूर्त्यनन्तरं प्रवेशानुमतिप्रदानविषये अपि सकारात्मकचर्चा अभवत्। चीनदेशीयाधिकारिभिः सूचितं यत् पासपोर्टधारिणः सदाचारअभिलेखयुक्ताश्च वाहनचालकाः चरणबद्धरूपेण प्रवेशानुमतिं प्राप्तुं शक्नुवन्ति। एतस्य निर्णयस्य नेपालीपरिवहनव्यवसायिभिः व्यापारिसमुदायेन च स्वागतं कृतम्।
अधिकारिणां अनुसारेण चीनदेशस्य पूर्वनीतौ, यत्र केवलं रसुवाजिलीयवाहकानां प्राधान्यं दीयते स्म, तस्यां शैथिल्यस्य सम्भावना वर्तते। अनेन व्यापारयातायातक्रियाकलापानां वृद्धेः सम्भावना व्यक्ता। जिलाप्रशासनकार्यालयस्य अनुसारेण सीमासम्बद्धविषयाणां समाधानार्थं द्विपक्षीयसुरक्षासमन्वयस्य सहयोगस्य च सुदृढीकरणाय एतादृश्यः संगोष्ठ्यः नियमितरूपेण पर्यायक्रमेण रसुवायां आयोज्यन्ते। स्थानीयसमाजसेवी मिलनतामाङ उक्तवान् यत् सीमाक्षेत्रे सुधरद्भिः वातावरणैः, व्यापारिकक्रियाकलापेषु वर्धमानया सहजतया तथा नेपालचीनयोः मैत्रीपूर्णसम्बन्धैः रसुवासहितेषु उत्तरीयसीमावर्तीक्षेत्रेषु नूतना आशा उत्पन्ना अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani