Enter your Email Address to subscribe to our newsletters

काठमांडूः, 24 मईमासः (हि.स.)।
नेपालस्य सत्तारूढा राष्ट्रिय स्वतन्त्र पार्टी (आरएसपी) अध्यक्षः रवि लामिछाने भारतपरिभ्रमणाय गन्तुं सज्जः अस्ति। बालेन्द्र शाहस्य नेतृत्वे आरएसपीदलेन शासनगठनानन्तरं भारतभ्रमणाय गन्तुं सज्जः सः प्रथमः नेता भविष्यति। भारतस्य विदेशमन्त्रालयस्य निमन्त्रणेन तस्य आगामीसप्ताहे दिल्लीगमनकार्यक्रमः निर्धारितः अस्ति।
१–२ जूनदिनाङ्कयोः भविष्यति अस्य भ्रमणस्य समये लामिछाने तथा भारतीयप्रधानमन्त्री नरेन्द्र मोदी इत्येतयोः मध्ये मेलनवार्तायाः सम्भावना वर्तते। तथापि अद्यापि अस्य उच्चस्तरीयसभायाः औपचारिका पुष्टि न कृता अस्ति।
लामिछाने भारतीयविदेशमन्त्री एस जयशंकर, अन्यैः मन्त्रिभिः तथा विदेशसचिवेन विक्रम मिश्री सहितैः अनेकैः वरिष्ठाधिकारिभिः सह भेंटं करिष्यति इति आरएसपीनेतृभिः उक्तम्।
इदं भ्रमणं दलीयस्तरे आयोजितः अस्ति, अतः भारतस्य सत्तारूढा भारतीयजनतापार्टी (भाजपा) मुख्यालये तस्य स्वागतस्य तैयारी क्रियते। तत्र तस्य भाजपा-अध्यक्षेण नितिन नवीनेन सह अपि मेलनं भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani