प्रधानमन्त्रिणा ज्योतिरादित्य-सिन्धिया-इत्यस्य लेखः लिखितः, सिक्किम-राज्यस्य सांस्कृतिक-धरोहरस्य विकास-प्रतिमानस्य च प्रशंसा कृता
नवदिल्ली, २४ मे-मासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सिक्किम-राज्यस्य राज्य-स्थापना-दिवसस्य अवसरे केन्द्रीयमन्त्रिणः ज्योतिरादित्य-सिन्धिया-इत्यनेन लिखितं लेखं साझाीकृत्य राज्यस्य सांस्कृतिक-धरोहरस्य, पर्यावरण-संरक्षणस्य तथा सतत-विकास-प्रतिमानस
पंतप्रधान नरेंद्र मोदी


नवदिल्ली, २४ मे-मासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सिक्किम-राज्यस्य राज्य-स्थापना-दिवसस्य अवसरे केन्द्रीयमन्त्रिणः ज्योतिरादित्य-सिन्धिया-इत्यनेन लिखितं लेखं साझाीकृत्य राज्यस्य सांस्कृतिक-धरोहरस्य, पर्यावरण-संरक्षणस्य तथा सतत-विकास-प्रतिमानस्य प्रशंसाम् अकरोत्। प्रधानमन्त्रिणा उक्तं यत् लेखे कञ्चनजङ्घा सिक्किम-राज्यस्य भूमेः, स्मृतेः तथा चेतनायाः संरक्षकरूपेण वर्णिता अस्ति, या राज्यस्य “विकसित-सिक्किम-२०४७” इति दृष्टिकोणाय दिशा प्रददाति।

प्रधानमन्त्री सामाजिक-माध्यम-मञ्चे ‘एक्स्’ इत्यत्र स्वसन्देशे उक्तवान् यत् सिक्किम-राज्यं स्वस्य राज्यत्वस्य एकपञ्चाशत्तमे वर्षे प्रवेशं करोति। अस्मिन् अवसरे ज्योतिरादित्य-सिन्धिया कञ्चनजङ्घायाः पञ्च-धरोहराणां माध्यमेन राज्यस्य परिचयं, परम्परां तथा विकास-यात्रां प्रभावशालिन्या रीत्या प्रस्तुतवान्। तेन उक्तं यत् एतानि पञ्च-धरोहराणि “विकसित-सिक्किम-२०४७” इत्यस्य दिशि राज्यस्य प्रगतिं प्रकाशयन्ति।

एकस्मिन् आङ्ग्ल-समाचार-पत्रे प्रकाशिते स्वलेखे ज्योतिरादित्य-सिन्धिया सिक्किम-राज्यं सामाजिक-समरसतायाः, पर्यावरण-संरक्षणस्य, सांस्कृतिक-धरोहरस्य तथा सतत-विकासस्य आदर्श-उदाहरणरूपेण वर्णितवान्। तेन लिखितं यत् राज्यस्य विकासः केवलं आधारभूत-संरचनायाः पर्यन्तं सीमितः नास्ति, अपितु जनानां विश्वासेन, प्रकृतेः संरक्षणेन तथा सांस्कृतिक-मूल्यैः सह अग्रे गतवान्।

सिन्धिया स्वलेखे कञ्चनजङ्घां सिक्किम-राज्यस्य आत्मरूपेण निरूप्य उक्तवान् यत् हिमालयस्य क्रोडे स्थितः अयं पर्वतः केवलं भौगोलिक-परिचयः न, अपितु राज्यस्य सामूहिक-चेतनायाः, श्रद्धायाः तथा परम्पराणां प्रतीकः अस्ति। तेन कञ्चनजङ्घासम्बद्धानां पञ्च-धरोहराणां—स्वर्णम्, रजतम्, रत्नानि, अन्नम् तथा पवित्र-ग्रन्थः—उल्लेखं कृत्वा उक्तं यत् एतानि सिक्किम-राज्यस्य समृद्ध-सांस्कृतिक-प्राकृतिक-धरोहरस्य प्रतिनिधित्वं कुर्वन्ति।

लेखे अस्य विषयस्य अपि विशेषतया उल्लेखः कृतः यत् सिक्किम-राज्यम् भारतस्य प्रथमं पूर्ण-जैविक-राज्यम् अस्ति, यत्र विकासस्य पर्यावरण-संरक्षणस्य च मध्ये संतुलनस्य अद्वितीयं प्रतिमानं दृश्यते। सिन्धिया राज्ये स्वच्छ-ऊर्जा, जैविक-कृषिः तथा सतत-पर्यटनं भविष्य-विकासस्य आधारशिलारूपेण वर्णितवान्।

तेन उक्तं यत् सिक्किम-राज्ये स्थानीय-समुदायानां सक्रिय-भागीदारी-सहितं विकास-कार्याणि अग्रे नीतानि। मार्ग-निर्माणस्य, डिजिटल-सम्पर्कस्य तथा पर्यटन-अवसंरचनायाः विस्तारस्य अनन्तरम् अपि पारिस्थितिक-संतुलनस्य संरक्षणाय निरन्तरः प्रयासः कृतः। लेखे सिक्किम-राज्यस्य सांस्कृतिक-विविधतायाः, बौद्ध-विहाराणाम्, स्थानीय-परम्पराणां तथा सामाजिक-समरसतायाः अपि विस्तरेण चर्चा कृता अस्ति।

सिन्धिया विश्वासं प्रकटितवान् यत् आगामिषु वर्षेषु सिक्किम-राज्यं हरित-विकासस्य, ज्ञान-आधारित-अर्थव्यवस्थायाः तथा सतत-पर्यटनस्य क्षेत्रे समग्र-देशस्य प्रेरणास्रोतः भवितुम् अर्हति। तेन उक्तं यत् सिक्किम-राज्यस्य विकास-यात्रा आधुनिकतायाः परम्परायाश्च संतुलनस्य सशक्तम् उदाहरणं प्रस्तुतयति।

Hindusthan Samachar / Divya Ranjan