Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 24 मईमासः (हि.स.)।
दिल्लीनगरस्य शिक्षामन्त्री आशीषसूदः राष्ट्रमण्डलदिवसस्य अवसरे जवाहरलालनेहरूक्रीडाङ्गणे आयोजिते फिट इण्डिया सण्डेज़ ऑन साइकिल इत्यस्य ७५तमसंस्करणे सहभागितां कृतवान्।
मन्त्री आशीषसूदः अत्र माध्यमप्रतिनिधीन् सम्बोधयन् अवदत् यत् फिट इण्डिया अभियानम् तथा ‘सण्डे ऑन साइकिल’ भारतसर्वकारस्य अद्वितीयःप्रयत्नः अस्ति। मन्त्री सूदः अवदत् यत् एषा पहल स्वास्थ्यस्य, जीवनशैल्याः, स्वास्थ्यजागरूकतायाः च संवर्धनस्य सह राष्ट्रमण्डलक्रीडा २०३० इत्यस्य संकल्पं जनजनं प्रति प्रसारयितुं महत्त्वपूर्णः प्रयासः अस्ति। तेन स्वस्थस्य ऊर्जस्विनः भारतस्य निर्माणे स्वस्य सहभागितां सुनिश्चितां कर्तुं जनान् आग्रहः कृतः।
---------------
Hindusthan Samachar / Dheeraj Maithani