Enter your Email Address to subscribe to our newsletters

पटना, 24 मईमासः (हि.स.)।
बिहारविधानसभायां प्रतिपक्षनेता तेजस्वी यादवो रविवासरे अत्र पत्रकारैः सह वार्तालापे मुख्यमन्त्रिणः नवीनवक्तव्ये कटाक्षं कुर्वन् उक्तवान् यत् “हरितगमछा भवतु अथवा नीलगमछा ”, एतादृशाः कथाः मुख्यमन्त्रिपदे स्थितायै व्यक्तये शोभां न वहन्ति। तेजस्वी यादव उक्तवान् यत् एतादृशानि वक्तव्यानि शासनस्य मानसिकतां प्रदर्शयन्ति तथा एतत् दर्शयति यत् सत्तास्थितानां जनानां अन्तःकरणेषु कियत् द्वेषभावना पूर्णा अस्ति।
तेजस्वी यादव उक्तवान् यत् बिहारराज्ये जनान् जात्या, वर्णेन तथा परिचयाधारेण विभक्तुं प्रयासः क्रियते। किन्तु बिहारस्य जनता अधुना सर्वं सम्यक् अवगता अस्ति तथा आगामिसमये अस्य उत्तरं दास्यति। राज्यस्य जनता विकासस्य, जीविकानां तथा महार्घतायाः विषयेषु उत्तरं इच्छति, किन्तु शासनं वास्तविकविषयात् जनमानसं विचलयितुं प्रयतते।
तेजस्वी यादवः प्रत्यपादितवान् यत् बिहारराज्ये बेरोजगारी तथा महङ्गाई निरन्तरं वर्धेते। युवभ्यः रोजगारः न प्राप्यते तथा दरिद्रपरिवाराः आर्थिकसंकटेन संघर्षं कुर्वन्ति। तथापि शासनं केवलं वक्तृत्वे तथा राजनीतिकदोषारोपणे एव व्यस्तम् अस्ति। महिलाभ्यः आर्थिकसहायता, वृद्धेभ्यः पेंशनं तथा युवभ्यः रोजगारप्रदानम् इत्यादयः प्रतिज्ञाः अधुना अपूर्णाः दृश्यन्ते। बिहारशासनस्य समीपे धनं न अवशिष्टम् अस्ति। जनतायै कृतप्रतिज्ञानां पूरणे शासनं पूर्णतया विफलं सिद्धम् अस्ति।
तेजस्वी यादवः उक्तवान् यत् सः पूर्वमपि शासनात् प्रश्नान् अपृच्छत् यत् महिलाभ्यः द्वितीया किस्तिः कदा प्रदास्यते, पेंशनधनराशिः कदा प्रदास्यते तथा सामान्यजनानां रक्षणार्थं के उपायाः करिष्यन्ते। किन्तु शासनं एतेषां विषयाणां उत्तरं दातुं विहाय जनतां मोहयितुं प्रयतते।
तेन आरोपः कृतः यत् राज्यशासनं निरन्तरं विद्युत्शुल्केषु वृद्धिं करोति, येन सामान्यजनानाम् उपरि आर्थिकभारः वर्धते। निर्वाचनकाले जनतायै महान्-महान् प्रतिज्ञाः कृताः आसन्, किन्तु अधुना शासनं ताभ्यः प्रतिज्ञाभ्यः प्रत्यागच्छति इव दृश्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani