Enter your Email Address to subscribe to our newsletters

वाराणसी, 24 मईमासः (हि. स.)।वाराणसी-नगरे दक्षिणी-विधानसभायाः विधायकः डॉ. नीलकण्ठ तिवारी उक्तवान् यत् प्रधानमन्त्रिणो मोदिनः प्रेरणया कबीरचौरा-स्थिते राजकीय-जिला-महिला-चिकित्सालये द्वयोः मासयोः मध्ये सम्पूर्ण-तैयारी कृता तथा अधुना मदर न्यू बोर्न केयर यूनिट् (एमएनसीयू) भवनस्य शिलान्यासः सम्पन्नः। डीपीआर निर्माय २४-शय्यायुक्तस्य एमएनसीयू-आधुनिक-भवनस्य निर्माणं शीघ्रमेव भविष्यति। मम अत्यन्तं प्रसन्नता भवति यत् नगर-दक्षिणी-क्षेत्रस्य अन्तर्गतं जिला-महिला-चिकित्सालये एतत् एमएनसीयू-भवननिर्माणं भविष्यति। येन नवजात-शिशूनां विशेष-परिचर्या कर्तुं शक्यते।
विधायकः डॉ. नीलकण्ठ तिवारी रविवासरे शिलान्यास-कार्यक्रमे उक्तवान् यत् डॉ. आर. एन. सिंह इत्यनेन एमएनसीयू-भवनस्य विषये चर्चा कृता आसीत् तथा अद्य तस्य भवनस्य शिलान्यासः सम्पन्नः। अस्य समीपे एव मल्टी-सुपर-स्पेशलिटी-चिकित्सालयः अपि निर्मीयते, यस्य शिलान्यासः पूर्वमेव सम्पन्नः। एषः चिकित्सालयः वाराणसी-दक्षिणी-क्षेत्रस्य जनानां तथा स्थानीय-निवासिनां कृते सर्वसुविधायुक्त-चिकित्सालयरूपेण उपलब्धः भविष्यति। चिकित्साक्षेत्रे दक्षिणी-विधानसभायाः कश्चन जनः उपचारार्थं अन्यत्र भ्रमितुं न बाध्यः भविष्यति, अपितु अत्रैव उपचारं प्राप्स्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani