Enter your Email Address to subscribe to our newsletters

वाराणसी, 24 मईमासः (हि. स.) । राजीवगान्धी-पेट्रोलियम-प्रौद्योगिकी-संस्थानस्य, जायस-अमेठीस्थस्य, कुलसचिवपदे (डेप्युटेशनाधारेण) कार्यरतः तथा भारतीय-प्रौद्योगिकी-संस्थानस्य (काशी-हिन्दू-विश्वविद्यालयः), वाराणस्याः संयुक्त-कुलसचिवः (प्रशासनम्) राजन् श्रीवास्तवः काशी-हिन्दू-विश्वविद्यालयस्य (बीएचयू) कुलसचिवपदे चयनितः अस्ति। तस्य नियुक्तिः उच्च-शिक्षा-प्रशासन-क्षेत्रे महत्त्वपूर्णा उपलब्धिरूपेण दृश्यते। एतत् विवरणं रविवासरे बीएचयू-जनसम्पर्क-कार्यालयेन प्रदत्तम्।
उक्तम् यत्, प्रायः त्रिदशक-समृद्ध-प्रशासनिक-अनुभवेन सम्पन्नः राजन् श्रीवास्तवः उच्च-शिक्षा-प्रशासने तथा वित्तीय-प्रबन्धन-क्षेत्रे स्वस्य दक्षता, कार्यकुशलता तथा नेतृत्व-क्षमतायाः कृते प्रसिद्धः अस्ति। तेन आईआईटी (बीएचयू) वाराणस्यां विविधेषु महत्त्वपूर्णेषु प्रशासनिक-वित्तीय-दायित्वेषु सफलतया कार्यं कृतम्। सः आईआईटी (बीएचयू) वाराणस्यां कार्यवाहक-कुलसचिवरूपेण प्रायः सार्ध-चतुर्वर्षपर्यन्तं, ७ जुलाई २०२५ पर्यन्तं, स्वसेवाः प्रदत्तवान्।
राजन् श्रीवास्तवः स्वस्य प्रशासनिक-सेवा-जीवनस्य आरम्भं वर्षे १९९६ तमे काशी-हिन्दू-विश्वविद्यालये सहायक-कुलसचिवरूपेण अकरोत्। वर्षे २००९ तमे सः बीएचयू मध्ये उप-कुलसचिवपदे पदोन्नतिं प्राप्तवान्। ततः परं वर्षे २०१२ तमे उप-कुलसचिवरूपेण आईआईटी (बीएचयू) वाराणसी-संस्थाने सम्बद्धः अभवत्। वर्षे २०१४ तः सः संयुक्त-कुलसचिवरूपेण संस्थानस्य प्रशासनिक-वित्तीय-कार्याणां दायित्वं वहन् आसीत्। तस्य नेतृत्वेन प्रशासनिक-दृष्टिकोणेन च संस्थानस्य प्रशासनिक-प्रक्रियासु, सुशासन-व्यवस्थायाम् तथा प्रणालीगत-सुदृढीकरणे उल्लेखनीयाः सुधाराः अभवन्।
उल्लेखनीयम् अस्ति यत्, अस्य पूर्वं राजन् श्रीवास्तवस्य चयनम् अटल-बिहारी-वाजपेयी-भारतीय-सूचना-प्रौद्योगिकी-एवं-प्रबन्धन-संस्थानस्य, ग्वालियरस्थस्य, कुलसचिवपदे अपि अभवत्, किन्तु तेन तत्र कार्यभारः न स्वीकृतः। अनन्तरं तेन ७ मार्च २०२६ तमे राजीवगान्धी-पेट्रोलियम-प्रौद्योगिकी-संस्थाने, जायस-अमेठीस्थे, कुलसचिवपदस्य कार्यभारः स्वीकृतः।
तस्य नवीन-नियुक्त्याः विषये प्रसन्नतां प्रकटयन् काशी-हिन्दू-विश्वविद्यालयस्य कुलपतिः प्रोफेसरः अजीत-कुमार-चतुर्वेदी राजन् श्रीवास्तवाय बधाईः शुभकामनाश्च प्रदत्तवान्। तेन उक्तम् यत् श्रीवास्तवः एकः प्रतिबद्धः, अनुभवी तथा कुशलः प्रशासकः अस्ति, यस्य प्रशासनिक-वित्तीय-शासने योगदानम् अत्यन्तं प्रशंसनीयम् अस्ति। तेन विश्वासः व्यक्तीकृतः यत् राजन् श्रीवास्तवस्य अनुभवः, दूरदर्शिता तथा नेतृत्व-क्षमता काशी-हिन्दू-विश्वविद्यालयस्य प्रशासनिक-व्यवस्थां अधिकं सुदृढां प्रभावीञ्च करिष्यति।
Hindusthan Samachar / Dheeraj Maithani