Enter your Email Address to subscribe to our newsletters

वाशिंगटनम्, 24 मईमासः (हि.स.)।
अमेरिकी-राष्ट्रपतिनः आधिकारिक-आवासस्य व्हाइट-हाउसस्य समीपे शनिवासरस्य सायंकाले जाता गोलीबारी सम्पूर्णं क्षेत्रं कम्पितवती। उक्तं यत् घटनायाः समये राष्ट्रपति डोनाल्ड-ट्रम्पः ईरान-सहमति-विषये केषाञ्चन जनैः सह संवादं कुर्वन् आसीत्। गोलीबारी-अनन्तरं सीक्रेट-सर्विस-एजेण्टैः समग्रः प्रदेशः परिवेष्टितः। सुरक्षार्थं किञ्चित्कालपर्यन्तं व्हाइट-हाउसः निरुद्धः कृतः। अनिष्ट-आशङ्कायाः दृष्ट्या व्हाइट-हाउसस्य समाचार-सङ्ग्रहणं कुर्वन्तः पत्रकाराः तत्क्षणमेव ब्रीफिंग-रूमं गन्तुं आदेशिताः। ज्ञातं यत् गोलीबार्यां द्वौ जनौ घायलौ अभवताम्।
सीबीएस-न्यूज्, एबीसी-न्यूज् तथा सीएनएन-चैनलस्य प्रतिवेदनानुसारं गोलीबार्यां एकः मार्गचारी तथा कथितरूपेण एकः सन्दिग्धः घायलः अभवत्। अधिकारिणां अनुसारम् आइजनहावर-एग्जीक्यूटिव-ऑफिस-बिल्डिंगस्य समीपे १७वीं-स्ट्रीट् तथा पेंसिल्वेनिया-एवेन्यू-एनडब्ल्यू इत्यत्र प्रायः १५ तः ३० पर्यन्तं गोलिकाः प्रक्षिप्ताः। व्हाइट-हाउसस्थित-पत्रकाराणां अनुसारं तैः पूर्वीय-समयानुसारं सायं ६ वादनस्य समीपे व्हाइट-हाउस-परिसरात् गोली-प्रक्षेपण-सदृशी ध्वनिः श्रुता। ततः परं सीक्रेट-सर्विस-एजेण्टाः तान् अन्तः नीतवन्तः। प्रायः एक-घण्टापर्यन्तं व्हाइट-हाउसगृहं निरुद्धम्आसीत्।
व्हाइट-हाउसप्रतिष्ठानस्य प्रवक्ता स्टीवन-च्युंगः पूर्वम् उक्तवान् यत् सायं ४ वादनपर्यन्तं राष्ट्रपति ट्रम्पः व्हाइट-हाउस एव आसीत्। ततः परं केचन अधिकारिणः पुष्टिं कृतवन्तः यत् घटनायाः समये अपि राष्ट्रपति स्वस्य आधिकारिक-आवासे एव उपस्थितः आसीत्। परिसरस्थित-पत्रकारा एम्मा-निकोलसन उक्तवती यत् वयं रेकॉर्डिंगस्य सिद्धतां कुर्मः स्म। तस्मिन्नेव काले तया व्हाइट-हाउसस्य समीपे बहूनां गोलीनां शब्दः श्रुतः। सा तत्क्षणमेव भूमौ अवनता अभवत्। ततः परं व्हाइट-हाउसः निरुद्धः कृतः। प्रायः एक-घण्टानन्तरं माध्यम-प्रतिनिधिभ्यः पुनः व्हाइट-हाउसस्य नॉर्थ-लॉन-प्रदेशे आगन्तुं अनुमतिः प्रदत्ता।
सूत्राणां अनुसारं सन्दिग्धाः सीक्रेट-सर्विस-एजेण्टान् लक्ष्यीकृतवन्तः, किन्तु ते सफलाः न अभवन्। सीक्रेट-सर्विस-एजेण्टैः अपि समुचितः प्रतिउत्तरः दत्तः। एजेण्टैः अपि गोली-प्रक्षेपणं कर्तव्यं अभवत्। अस्मिन् काले द्वौ जनौ घायलौ अभवताम्। तयोः एकः सन्दिग्धः अपरः च मार्गचारी आसीत्। उभयोः अवस्थां गम्भीरा वर्तते। यूएस-सीक्रेट-सर्विसस्य प्रवक्ता एंथनी-गुग्लिएल्मी उक्तवान् यत् संस्थया सन्दिग्धानां दुष्ट-योजना विफला कृता।
संघीय-अन्वेषण-ब्यूरो (एफबीआई) इत्यस्य निदेशकः काश-पटेलः एक्स-माध्यमे उक्तवान् यत् सूचना-प्राप्तिमात्रेण अस्माकं अधिकारिणः घटनास्थलं प्राप्तवन्तः। तेन उक्तं यत् एकः सन्दिग्धः सीक्रेट-सर्विसस्य सुरक्षा-चौक्यां गोलिकाप्रहारं कृतवान्, किन्तु कश्चन प्रतिनिधिः घायलः न अभवत्। प्रत्युत्तर-गोलिकाप्रहारे एकः सन्दिग्धः आहतःअभवत्। एतदतिरिक्तं तत्र उपस्थितः एकः मार्गचारी अपि आहतः अभवत् इति दृश्यते।
सीक्रेट-सर्विस तथा एफबीआई संस्थाभ्यां एक्स-माध्यमे उक्तं यत् शनिवासरस्य सायंकाले कथित-गोली-ध्वनेः अनन्तरं व्हाइट-हाउसस्य नॉर्थ-लॉन-प्रदेशः रिक्तीकृतः। अत्र उपस्थिताः सर्वे पत्रकाराः ब्रीफिंग-रूमं नीताः। नॉर्थ-लॉन-प्रदेशे गोली-ध्वनिं श्रुत्वा पत्रकाराणां प्रतिक्रिया विषये संवाददात्री सेलिना-वांग उक्तवती, वयं सर्वे तत्क्षणं स्वस्थानानि त्यक्त्वा निगूढाः अभवाम। गोलीबारी-निवृत्तेः अनन्तरं धावित्वा व्हाइट-हाउसस्य पत्रकारकक्षं गतवन्तः।
एषा घटना व्हाइट-हाउस-पत्रकार-भोजस्य एक-मासात् अपि न्यून-कालानन्तरं जाता। तदा अपि गोलिकाः प्रक्षिप्ताः आसन् तथा पत्रकारैः सह अधिकारिभिः अपि मेज-अधः निगूढं भवितव्यम् आसीत्। सीक्रेट-सर्विसप्रतिनिधिभिः राष्ट्रपति तत्क्षणं सुरक्षित-स्थानं नीतः। चलचित्र-दृश्यानुसारं गोलिकाप्रहारस्य सन्दिग्धः कोल-टॉमस-एलन नामकः हस्ते शॉटगन धारयन् एकां सुरक्षा-चौकीं तीव्रतया त्यक्त्वा पलायितः तथा स्वस्य पृष्ठतः धावमानान् सीक्रेट-सर्विस-प्रतिनिधीन् प्रति गोलिकाप्रहारं कृतवान्। तस्मिन् राष्ट्रपतेः ट्रम्पस्य हत्या-प्रयत्नस्य आरोपः अस्ति। एषा घटना व्हाइट-हाउस-कॉरेस्पोंडेंट्स-डिनरस्य समये वाशिंगटन-हिल्टन-पथिकाश्रये जाता।
---------------
Hindusthan Samachar / Dheeraj Maithani