Enter your Email Address to subscribe to our newsletters

देहरादूननगरम्, २४ मे-मासः (हि.स.)। उत्तराखण्ड-राज्ये अग्रिम-विशेष-गहन-पुनरीक्षण- (एसआईआर) अभियानं प्रति निर्वाचन-विभागेन सज्जता तीव्रीकृता अस्ति। राज्ये प्री-एसआईआर-चरणे अद्यावधि ८९ प्रतिशतं मैपिङ्ग-कार्यं पूर्णं कृतम् अस्ति। मुख्य-निर्वाचन-आयुक्तेन ज्ञानेश-कुमारः मतदाता-सूच्याः त्रुटिरहित-शुद्धीकरणे बलं दत्तम्।
मुख्य-निर्वाचन-आयुक्तः उक्तवान् यत् एसआईआर-अभियानस्य उद्देश्यं “अनुपस्थिताः, स्थानान्तरिताः, मृताः, द्विरूपाः तथा विदेशीय-मतदातारः” इत्येतेषां चिन्हीकरणं कृत्वा मतदाता-सूच्याः व्यापक-शुद्धीकरणं कर्तुं अस्ति, येन निर्वाचन-प्रक्रिया अधिक-स्वच्छा विश्वसनीया च भवेत्। सः मतदातृभ्यः अपि आह्वानं कृतवान् यत् ते स्व-नवीनतम-पासपोर्ट-आकार-छायाचित्राणि उपलब्धानि कुर्वन्तु तथा बूथ-स्तरीय-अधिकारीणां (बीएलओ) सह आवश्यक-सहयोगं दद्युः।
रविवासरे बीजापुर-गेस्ट-हाउस, देहरादून-नगरे आयोजितायां उच्च-स्तरीय-समीक्षा-सभायां मुख्य-निर्वाचन-आयुक्तेन राज्ये चलन्तीनां सज्जतानां मतदाता-सत्यापन-प्रक्रियायाः च प्रगतेः आकलनं कृतम्। सः आगामी-विशेष-गहन-पुनरीक्षण-अभियानं लोकतान्त्रिक-व्यवस्थायाः पारदर्शिता-विश्वसनीयताभ्यां सम्बद्धं महत्त्वपूर्णं चरणम् इति उक्तवान्।
सभायां उत्तराखण्ड-राज्यस्य मुख्य-निर्वाचन-अधिकारी बी.वी.आर.सी. पुरुषोत्तमः उक्तवान् यत् राज्ये प्री-एसआईआर-चरणे ८९ प्रतिशतं मैपिङ्ग-कार्यं सम्पन्नम् अस्ति। गणना-प्रपत्राणां मुद्रण-प्रक्रियायाः सज्जता पूर्णा अस्ति, तथा जिला-निर्वाचन-अधिकारीणां, उप-जनपद-निर्वाचन-अधिकारीणां (डीईओ) तथा ईआरओ/एईआरओ इत्येतेषां प्रथम-चरण-प्रशिक्षणम् अपि सम्पन्नम्। बीएलओ-इत्यादीनां क्षेत्रीय-कर्मचारिणां प्रशिक्षणं सम्प्रति प्रचलति।
निर्वाचन-अधिकारीणां अनुसारं मतदाता-जागरूकता-वृद्ध्यर्थं व्यापक-अभियानः प्रचलति। राजनैतिक-दलैः सह समन्वय-वृद्ध्यर्थं सर्वेषु जनपदेषु निर्वाचन-अधिकारीणां तथा ईआरओ-इत्येतेषां साप्ताहिक-सभाः आयोजनाय निर्देशाः दत्ताः।
अस्मिन् अवसरे मुख्य-सचिवः आनन्द-बर्धनः, एडीजी डॉ. वी. मुरुगेशनः, अपर-मुख्य-निर्वाचन-अधिकारी डॉ.विजय-कुमार-जोगदण्डे, देहरादून-जनपदाधीशः सविन-बंसलः, नवनियुक्त-जनपदाधीशः डॉ.आशीष-चौहानः, एसएसपी देहरादून प्रमेंद्र-डोभालः, सीडीओ अभिनव-शाहः, संयुक्त-मुख्य-निर्वाचन-अधिकारी प्रकाश-दुम्का, उप-मुख्य-निर्वाचन-अधिकारी किशन-सिंह-नेगी, सहायक-मुख्य-निर्वाचन-अधिकारी मस्तू-दासः, प्रत्यूष-सिंह इत्यादयः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan