Enter your Email Address to subscribe to our newsletters

देहरादूनम् -24मेमासः(हि.स.)जनपदे विधिव्यवस्थां सुदृढां कर्तुं तथा सामान्यजनस्य सुरक्षां सुनिश्चितां कर्तुं उद्देश्येन जिलाधिकाऱिणः निर्देशानुसारं होमस्टे संचालनस्य सघनजांचाः क्रियन्ते। परिशीलने मानकानां उल्लङ्घनं दृष्ट्वा जिलाप्रशासनेन महती कार्यवाही कृता तथा अद्यावधि १०३ होमस्टे पञ्जीकरणानि निरस्तानि कृतानि। यस्मिन् प्रथमचरणे १७, द्वितीयचरणे ७९ तथा तृतीयचरणे ७ होमस्टे पञ्जीकरणानि निरस्तानि अभवन्। सम्बन्धितहोमस्टे विभागीयजालस्थलात् अपि विलोपनप्रक्रिया प्रारब्धा अस्ति।
जिले होटरूपेण सञ्चालितेषु शहरीयधनाढ्यजनानां होमस्टेषु जिलाधिकाऱिणा कठोरकार्यवाही कृता। अस्य क्रमस्य अन्तर्गतं जिलाप्रशासनस्य मजिस्ट्रेटदलैः अद्यावधि जनपदस्य विभिन्नक्षेत्रेषु १५३ निरीक्षणानि कृत्वा मानकविपरीतरूपेण सञ्चालितानां १०३ होमस्टे पञ्जीकरणानि निरस्तानि कृत्वा पर्यटनजालस्थलात् विलोपनस्य प्रक्रिया प्रारब्धा। जिलाप्रशासनेन ऑपरेशन स्वच्छता आरभ्य प्रथमचरणे १७, द्वितीयचरणे ७९, तृतीयचरणे ७ अवैधहोमस्टे पञ्जीकरणानि निरस्तानि कृतानि तथा अग्रेऽपि कार्यवाही गतिशीला भविष्यति।
विगतकेषु मासेषु नगरे वर्धमानाः आपराधिकघटनाः, मादकद्रव्यसेवनम्, अतिवेगेन वाहनचालनम् इत्यादयः घटनाः वर्धिताः सन्ति। यस्य प्रमुखकारणेषु एकं होमस्टेषु रात्रौ नियमविरुद्धबारसञ्चालनम् इत्यादि प्रकाशे आगतम्, यत्र उच्चध्वनियुक्तडीजे, मादकद्रव्यसेवनम् तथा अवैधक्रियाकलापानाम् अड्डारूपेण परिवर्तितेषु होमस्टेषु उपद्रवीप्रवृत्तेः व्यक्तीनां निवासेन सामान्यजनानां जीवनस्य संकटः उत्पन्नः अस्ति।
एतस्य दृष्ट्या जिलाप्रशासनेन कठोरं रुखम् अवलम्ब्य होमस्टे सत्यापनम् निरीक्षणं च क्रियते। होमस्टे होटलेषु निर्धारितप्रक्रियायाः पालनं विना पर्यटकाः तथा उपद्रवीप्रवृत्तेः जनाः निवासिताः सन्ति। होमस्टे अपि लीजरूपेण सञ्चालिताः सन्ति, ये जनपदस्य विधिव्यवस्थायाः कृते चुनौतीरूपेण स्थिताः सन्ति। उपद्रवीप्रवृत्तेः व्यक्तिभिः नगरे हुड्दङ्गः, मादकावस्थायां अतिवेगेन वाहनचालनम्, पिस्टलतमचाभ्यां च गोलीचालनघटनाः अपि समक्षम् आगताः।
होमस्टेयोजनायाः मूलोद्देश्यः स्थानीयसंस्कृतेः, पारम्परिकभोजनानां प्रचारप्रसारस्य तथा स्थानीयनिवासिनां आयवृद्धेः च अस्ति, किन्तु निरीक्षणकाले बहूनां होमस्टे उपयोगः होटरूपेण अथवा व्यावसायिकप्रतिष्ठानरूपेण क्रियमाणः दृष्टः, येन अव्यवस्था तथा विधिव्यवस्थायां प्रतिकूलः प्रभावः जातः।
जिलाधिकारी सविन बंसल महोदयस्य निर्देशानुसारं सहसपुर तथा रायपुर विकासखण्डयोः नगरीयक्षेत्रेषु पञ्जीकृतहोमस्टे जांचार्थं क्षेत्रवारसमितीनां गठनं कृतम्। समितिभिः निरीक्षणानन्तरं १०३ होमस्टे एतादृशाः दृष्टाः ये उत्तराखण्ड गृहआवास (होमस्टे) नियमावल्याः प्रावधानानुसारं सञ्चालिताः न आसन्। एतेषां सर्वेषां पञ्जीकरणनिरस्तीकरणस्य संस्तुतिः कृता, यां स्वीकृत्य प्रशासनद्वारा कार्यवाही कृता।
निरीक्षणकाले बहुषु होमस्टेषु पाकशालाव्यवस्था न दृष्टा। अग्निशमनयन्त्राणि अनुपलब्धानि अथवा तेषां वैधता समाप्ता दृष्टा। होमस्टे उपयोगः बारातगृहस्य तथा व्यावसायिकक्रियाकलापानां कृते क्रियमाणः आसीत्। अनेकस्थलेषु स्वामिनः निवासः न दृष्टः तथा इकाइयः लीज अथवा किरायारूपेण सञ्चालिताः आसन्। निर्धारितक्षमतातः अधिककक्षाणां संचालनम् अपि क्रियमाणम् आसीत्। विगतनिरीक्षणेषु विदेशिनागरिकाणां निवाससम्बद्धसूचना (सीफॉर्म) न प्रदत्तेति घटनाः प्रकाशे आगताः। केचन होमस्टे पञ्जीकृताः सन्तः अपि सञ्चालिताः न दृष्टाः।
Hindusthan Samachar / Dheeraj Maithani