भगतसिंह-कोश्यारी २५ मे-मासे पद्मभूषणेन सम्मानितः भविष्यति
देहरादूननगरम्, २४ मे-मास: (हि.स.)। पूर्व-राज्यपालः पूर्व-मुख्यमन्त्री च भगतसिंह: कोश्यारी इत्यस्य २५ मे-मासे नूतन-दिल्ल्यां राष्ट्रपति-द्रौपदी-मुर्मू-वर्यया पद्मभूषण-सम्पदा सम्माननं क्रियते। केन्द्र-सर्वकारेण प्रकाशित-आधिकारिक-सूचनानुसारं उत्तराखण्
भगत सिंह  कोश्यारी फाइल चित्र।


देहरादूननगरम्, २४ मे-मास: (हि.स.)। पूर्व-राज्यपालः पूर्व-मुख्यमन्त्री च भगतसिंह: कोश्यारी इत्यस्य २५ मे-मासे नूतन-दिल्ल्यां राष्ट्रपति-द्रौपदी-मुर्मू-वर्यया पद्मभूषण-सम्पदा सम्माननं क्रियते। केन्द्र-सर्वकारेण प्रकाशित-आधिकारिक-सूचनानुसारं उत्तराखण्डे ‘भगत दा’ इति नाम्ना लोकप्रियः कोश्यारी शिक्षा-समाजसेवा-राजनीति-राष्ट्रनिर्माणेषु दीर्घकालिक-योगदानाय एतत् सम्मानं लभते।

कोश्यारी-महोदयस्य जन्म १७ जूनमासे १९४२ तमे वर्षे बागेश्वर-जनपदे पलानधुरा-ग्रामे अभवत्। सः ग्रामीण-पृष्ठभूमेः उद्भूतः सन् शिक्षा-सार्वजनिक-जीवने विशेष-प्रतिष्ठां प्राप्तवान्। आगरा-विश्वविद्यालयात् सम्बद्ध-अल्मोड़ा-महाविद्यालयात् अङ्ग्रेजी-साहित्ये स्नातकोत्तर-उपाधिं प्राप्तवान्, आरम्भे च उत्तरप्रदेशस्य एटा-जनपदे व्याख्याता-रूपेण कार्यं कृतवान्। पश्चात् सः सम्पूर्णतः शिक्षा-समाजसेवायां स्वं समर्पितवान्।

१९६६ तमे वर्षे सः सीमावर्ती-पिथौरागढ़-जनपदे ‘सरस्वती-शिशु-मन्दिर’-संस्थापनं कृतवान्, येन दुर्गम-प्रदेशेषु शिक्षायाः अवसराः सुदृढाः अभवन्। तेन सह ‘विवेकानन्द-इण्टर-महाविद्यालय’-स्थापनायामपि महत्त्वपूर्णा भूमिका निर्वुढा। सः दीर्घकालं यावत् राष्ट्रीय-स्वयंसेवक-सङ्घेन सह सम्बद्धः आसीत् तथा उत्तरांचल-उत्थान-परिषदः सचिव-पदे अपि कार्यं कृतवान्। सामाजिक-जागरूकतायाः प्रसाराय सः ‘पर्वत पीयूष’ इति हिन्दी-साप्ताहिक-पत्रिकां प्रकाशितवान्।

१९९७ तमे वर्षे सः उत्तरप्रदेश-विधानपरिषदः कृते नामनिर्दिष्टः। २००० तमे वर्षे उत्तराखण्ड-राज्यस्य गठनानन्तरं सः प्रथम-मन्त्रिमण्डले कैबिनेट-मन्त्री अभवत् तथा अल्पकालं मुख्यमन्त्री-पदे अपि कार्यं कृतवान्। तेन उत्तराखण्ड-विधानसभायां विपक्ष-नेतृ-पदमपि ऊढम्। २००८ तमे वर्षे सः राज्यसभायां निर्वाचितः, २०१४ तमे वर्षे नैनीताल-उधमसिंहनगर-लोकसभा-निर्वाचनक्षेत्रात् लोकसभां प्रविष्टः।

ऊर्जा-मन्त्रिपदे कार्यकालमध्ये सः टिहरी-जलविद्युत्-परियोजनायाः प्रगतौ महत्त्वपूर्णां भूमिकां निर्वहति, यस्यां टिहरी-नगरस्य ऐतिहासिक-स्थलानां स्थानान्तरणम् अपि अन्तर्भवति। सः राज्यसभा-लोकसभयोः याचिका-समितेः अध्यक्षरूपेण अपि कार्यं कृतवान्, यत्र रेल-संयोजनं, ‘वन रैंक वन पेंशन’ तथा आधारभूत-संरचना-विकासः इत्यादिषु विषये विस्तृत-संशंसाः प्रस्तुताः।

२०१९ तमे वर्षे ५ सितम्बर-मासे तस्मै महाराष्ट्र-राज्यपाल-पदं दत्तम्, यत्र सः सक्रियतया कार्यं कृतवान् तथा राज्यस्य प्रायः सर्वेषु जनपदेषु भ्रमणं कृतवान्। २०२० तमे वर्षे अगस्त-मासे गोवा-राज्यस्य राज्यपाल-पदस्य अतिरिक्त-भारः अपि तस्मै दत्तः।

सः लेखकः अपि अस्ति; तेन ‘उत्तरांचल प्रदेश क्यों’ तथा ‘उत्तरांचल प्रदेश: संघर्ष एवं समाधान’ इति पुस्तके लिखिते, ये उत्तराखण्डस्य विकास-चिन्तनं प्रतिबिम्बयतः। तस्य जीवनं राष्ट्रसेवायाः, नेतृत्वस्य, तथा अटूट-समर्पणस्य प्रेरकं उदाहरणं मन्यते।

Hindusthan Samachar / Divya Ranjan