Enter your Email Address to subscribe to our newsletters

वाशिंगटन्, २४ मे-मासः (हि.स.)। अमेरिकीयराष्ट्रपतेः आधिकारिक-निवासस्थानस्य व्हाइट-हाउसस्य समीपे शनिवासरे सायंकाले अभवत् गुटिकाकाण्डेन सम्पूर्णं क्षेत्रं सन्त्रस्तम् अभवत्। उक्तं यत् घटनायाः समये राष्ट्रपति: डोनाल्ड-ट्रम्पः ईरान-सन्धि-विषये जनै: सह वार्तालापं कुर्वन् आसीत्। गुटिकाकाण्डस्य अनन्तरं सीक्रेट्-सर्विस्-संस्थायाः अभिकर्तारः समग्रं क्षेत्रं परिवृतवन्तः। सुरक्षायाः कृते किञ्चित्कालपर्यन्तं व्हाइट-हाउस अपि पिहितः कृतः। अनिष्टस्य आशङ्कां दृष्ट्वा व्हाइट-हाउस-इत्यस्य समाचार-सङ्कलने नियुक्ताः माध्यमकर्मिणः तत्क्षणमेव ब्रीफिङ्ग-रूम् प्रति गन्तुम् आदिष्टा:। ज्ञातं यत् गुटिकाकाण्डे द्वौ जनौ आहतौ अभवताम्। अधिकारिभिः उक्तं यत् सीक्रेट्-सर्विस्-अभिकर्तृभिः कृतायां प्रतिगुटिकायां आहतः एकः सन्दिग्धः पश्चात् मृतवान्।
सीबीएस्-न्यूज्, एबीसी-न्यूज् तथा सीएनएन-चैनल् इत्येषां प्रतिवेदनानुसारं व्हाइट-हाउस-इत्यस्य बहिः स्थितस्य सीक्रेट्-सर्विस्-निरीक्षण-केन्द्रस्य अधिकारिणः अवदन् यत् गुटिकाकाण्डस्य अनन्तरं आहतः सन्दिग्धः चिकित्सालयं नीतः, यत्र तस्य मृत्यु: अभवत्। गुटिकाकाण्डे एकः मार्गचारी अपि आहतः अभवत्। सीक्रेट्-सर्विस्-संस्थायाः कस्यापि अभिकर्तुः कापि क्षति: न अभवत्। सीक्रेट्-सर्विस्-संस्थायाः प्रवक्त्रा उक्तं यत् घटनायाः समये राष्ट्रपति डोनाल्ड-ट्रम्पः व्हाइट-हाउस-इत्यत्र एव आसीत्।
अन्वेषण-अधिकारिणां अनुसारं मृतस्य सन्दिग्धस्य परिचयः २१-वर्षीयः नासिर-बेस्ट् इति अभवत्। बेस्ट् इत्यस्य जुलाई-मासे २०२५ तमे वर्षे अपि सीक्रेट्-सर्विस्-संस्थया सह सामना अभवत्। तदा सः व्हाइट-हाउसमध्ये प्रवेशं कर्तुं प्रयत्नवान् आसीत्। सः गृहीत्वा मनोरोग-चिकित्सा-विभागं प्रेषितः आसीत्। एषः गुटिकाकाण्डः व्हाइट-हाउसस्य बहिः १७वीं-स्ट्रीट् तथा पेन्सिल्वेनिया-एवेन्यू एनडब्ल्यू इत्यत्र स्थितस्य आइजनहावर-एक्जीक्यूटिव्-ऑफिस्-प्रासादस्य समीपे अभवत्। अस्मिन् समये प्रायः १५ तः ३० पर्यन्तं गुटिकाः प्रक्षिप्ताः। व्हाइट-हाउसमध्ये उपस्थितानां पत्रकाराणां अनुसारं तैः पूर्वीय-समयानुसारं सायं षड्वादने व्हाइट-हाउस-परिसरात् गुटिकाचालनस्य ध्वनिः श्रुतः। ततः परं सीक्रेट्-सर्विस्-अभिकर्तारः तान् अन्तः नीतवन्तः। प्रायः एकहोरापर्यन्तं व्हाइट-हाउसः पिहितः आसीत्।
सूत्राणाम् अनुसारं सन्दिग्धाः सीक्रेट्-सर्विस्-अभिकर्तॄन् लक्ष्यीकर्तुं प्रयत्नं कृतवन्तः, परन्तु ते सफलाः न अभवन्। सीक्रेट्-सर्विस्-अभिकर्तारः अपि समुचितं प्रत्युत्तरं दत्तवन्तः। अभिकर्तृभिः अपि गुटिकाचालनं कर्तव्यम् अभवत्। यूएस्-सीक्रेट्-सर्विस्-संस्थायाः प्रवक्ता एन्थनी-गुग्लिएल्मी उक्तवान् यत् संस्थया सन्दिग्धानां दुष्प्रयोजनं विफलीकृतम्। संघीय-अन्वेषण-विभागस्य (एफबीआई) निदेशकः काश्-पटेल् ‘एक्स्’ इत्यत्र लिखितवान् यत् सूचनां प्राप्य तत्क्षणमेव अस्माकं अधिकारिणः घटनास्थलं प्राप्तवन्तः।
सीक्रेट्-सर्विस् तथा एफबीआई संस्थाभ्यां ‘एक्स्’ इत्यत्र उक्तं यत् शनिवासरे सायंकाले कथित-गुटिकाध्वनेः अनन्तरं व्हाइट-हाउसस्य नॉर्थ्-लॉन-प्रदेशः रिक्तीक्रियते स्म। अत्र उपस्थिताः सर्वे पत्रकाराः ब्रीफिङ्ग-प्रकोष्ठ प्रति नीताः। नॉर्थ्-लेन-प्रदेशे गुटिकाध्वनिं श्रुत्वा पत्रकाराणां प्रतिक्रिया विषये संवाददात्री सेलिना-वाङ्ग उक्तवती— “वयं सर्वे तत्क्षणं स्वात्मानं गोपितवन्तः। गुटिकाचालनस्य विरामानन्तरं धावित्वा व्हाइट-हाउस-इत्यस्य प्रेस-ब्रीफिङ्ग-प्रकोष्ठं गतवन्तः।”
एषा घटना व्हाइट-हाउस-पत्रकार-भोजस्य एकमासात् अपि न्यूनकालानन्तरं अभवत्। तस्मिन् समये अपि गुटिका: प्रक्षिप्ताः आसन् तथा पत्रकारैः सह अधिकारिभिः अपि आसन्दानां अधः गोपनं कर्तव्यम् अभवत्। सीक्रेट्-सर्विस्-अभिकर्तारः राष्ट्रपतिं तत्क्षणं सुरक्षित-स्थानं नीतवन्तः। वीडियो-दृश्यानुसारं गुटिकाकाण्डस्य सन्दिग्धः कोल्-टॉमस्-एलन् हस्ते शॉट्गन् धारयन् एकस्मात् सुरक्षा-केन्द्रात् शीघ्रं पलायितः तथा स्वस्य अनुगमनं कुर्वत्सु सीक्रेट्-सर्विस्-अभिकर्तृषु गुटिकाचालनं कृतवान्। तस्मिन् राष्ट्रपति-ट्रम्पस्य हत्यायाः प्रयासस्य अभियोगः आरोपितः अस्ति। एषा घटना व्हाइट-हाउस-कोरेस्पॉण्डेण्ट्स्-भोजस्य समये वाशिंगटन्-हिल्टन्-होटल इत्यत्र अभवत्।
Hindusthan Samachar / Divya Ranjan