Enter your Email Address to subscribe to our newsletters

मुख्यमंत्रिणा धामिना नव निर्मित आनंदधर्मशालासमितेः लोकार्पणम्
हरिद्वारम्, 24 मईमासः (हि.स.)।
मुख्यमन्त्री पुष्करसिंहधामी हरिद्वारे श्रीआनन्दधर्मशालासमित्या निर्मितायाः नूतनधर्मशालायाः रविवासरे लोकार्पणं कृतवान्। अस्मिन् अवसरे आयोजिते समारोहे मुख्यमन्त्री अवदत् यत् क्षत्रियकलौतासमाजः स्वस्य परिश्रमेण, साहसेन, संस्कारेण च समाजस्य राष्ट्रस्य च निर्माणे महत्त्वपूर्णं योगदानं दत्तवान्। तेन उक्तं यत् कृषिक्षेत्रे, व्यापारक्षेत्रे, शिक्षाक्षेत्रे, समाजसेवायां, देशस्य सुरक्षायां च समाजस्य जनैः उल्लेखनीयकार्याणि कृतानि।
मुख्यमन्त्री अवदत् यत् भारतीयसेनायां, केन्द्रीयरिजर्वपुलिसबले, अन्येषु सुरक्षाबलेषु च सेवां प्रदाय समाजस्य वीरसपूताः राष्ट्रस्य सीमाः आन्तरिकसुरक्षां च सुदृढां कुर्वन्ति। तेन श्रीआनन्दधर्मशालासमित्या धार्मिकजागरणाय, सांस्कृतिकसंरक्षणाय, मानवकल्याणाय च क्रियमाणानां कार्याणां प्रशंसा कृता तथा उक्तं यत् एषा धर्मशाला सेवा-समर्पण-परोपकाराणां सजीवम् उदाहरणम् अस्ति।
तेन उक्तं यत् हरिद्वारं भारतस्य आध्यात्मिकचेतनायाः सनातनसंस्कृतेः च प्रवेशद्वारम् अस्ति, यत्र देशविदेशेभ्यः आगच्छन्तः श्रद्धालवः मातुः गङ्गायाः सान्निध्ये श्रद्धायाः आध्यात्मिक्याः ऊर्जायाश्च अनुभवं कुर्वन्ति। श्रद्धालूनां सुविधार्थं धर्मशालानिर्माणं पुण्यमयं प्रशंसनीयञ्च कार्यम् अस्ति, यत् आगामिकुम्भे चतुर्धामयात्रायां च लक्षशः श्रद्धालूनां कृते उपयोगी सिद्धा भविष्यति।
मुख्यमन्त्री अवदत् यत् वर्षे २०२७ तमे आयोज्यमानं हरिद्वारकुम्भं भव्यं, दिव्यं, सुरक्षितं च कर्तुं राज्यसर्वकारः प्रधानमन्त्रिणः नरेन्द्रमोदिनः मार्गदर्शने कार्यं करोति। तेन उक्तं यत् घाटानां पुनरुद्धारः, मार्गव्यवस्था, स्वच्छता, यातायातव्यवस्था, मूलभूतसुविधानां विकासः च इत्यर्थं तीव्रगत्या कार्याणि प्रचलन्ति, येन प्रत्येकः श्रद्धालुः सुव्यवस्थितं सुरक्षितञ्च अनुभवं प्राप्नुयात्।
मुख्यमन्त्री प्रधानमन्त्रिणः मोदिनः नेतृत्वे भारतस्य सनातनसंस्कृतेः प्राप्तायाः वैश्विकपरिचितेः उल्लेखं कृत्वा काशीविश्वनाथकोरिडोर, केदारनाथ-बद्रीनाथमन्दिरयोः सहितानां अनेकानां धार्मिकपरियोजनानां उल्लेखं कृतवान्। तेन उक्तं यत् उत्तराखण्डराज्ये केदारखण्ड-मानसखण्डक्षेत्रयोः प्राचीनमन्दिराणां पुनर्विकासः सौन्दर्यीकरणकार्याणि च निरन्तरं प्रगतौ सन्ति।
मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः देवभूमेः उत्तराखण्डस्य सांस्कृतिकपरिचयस्य, सनातनमूल्यानां, सामाजिकसमरसतायाश्च संरक्षणाय प्रतिबद्धा अस्ति। तेन समाननागरिकसंहितायाः कार्यान्वयनं सर्वेषां नागरिकाणां कृते समानाधिकारस्य न्यायस्य च सुनिश्चिततायाः दिशि ऐतिहासिकं पादक्षेपम् इति वर्णितम्।
कार्यक्रमे हरिचेतनानन्दमहाराजः, मध्यप्रदेशस्य मन्त्री कैलाशविजयवर्गीयः, विनयरोहिला, विशालपटेलः, सन्तोषपटेलः, आशारामसिसोदिया, भाजपाजिलाध्यक्षः आशुतोषशर्मा, हरिद्वारजिलाधिकारी मयूरदीक्षितः, वरिष्ठपुलिसअधीक्षकः नवनीतसिंहभूल्लरः इत्यादयः विभिन्नक्षेत्रेभ्यः आगताः समितिजनाः श्रद्धालवश्च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani