Enter your Email Address to subscribe to our newsletters


आगरा, 25 मईमासः (हि.स.)। चतुर्दिवसीयभारतीयभ्रमणाय आगतः अमेरिकीविदेशमन्त्री मार्कोरूबियो स्वस्य पूर्वनिर्धारितकार्यक्रमानुसारं सोमवासरे विशेषविमानेन आग्राम् आगत्य सपत्नीकः ताजमहलस्य सौन्दर्यं निरीक्षितवान्।
अमेरिकीविदेशमन्त्री मार्कोरूबियो शनिवासरात् भारतभ्रमणे वर्तते। अस्मिन् काले सः सोमवासरे स्वपत्नी जीनेट्रूबियो सहितः विशेषविमानेन आगरानगरे वायुसेनायाः खेरीयाविमानस्थले पूर्वाह्णे प्रायः ९:३० वादने आगतः। ततः तेषां वाहनश्रेणी सीधा ताजमहलस्य शिल्पग्रामम् अगच्छत्। मार्को तथा तस्य पत्नी गोल्फयानम् आरुह्य ताजमहलस्य पूर्वद्वारम् उपागतवन्तौ तथा पद्भ्यामेव पूर्वद्वारतः ताजमहलपरिसरम् प्रविष्टवन्तौ। ताभ्यां सह प्रतिनिधिमण्डलस्य केचन सदस्याः अपि आसन्।
ताजमहल इत्यस्य सौन्दर्येन अत्यन्तं प्रसन्नः मार्कोरूबियो स्वपत्नी जीनेटेन सह डायनावेदिकायाम् एतान् सुन्दरक्षणान् छायाचित्रणमाध्यमेन स्मरणीयान् कृतवान्। मार्गदर्शकः नितिनगुप्तः मार्कोरूबियो सह ताजमहलस्य भ्रमणम् अकार्षीत् तथा ताजमहलस्य निर्माणस्य इतिहासस्य च विषये सूचनाम् अददात्।
ताजमहलस्य अवलोकनानन्तरं मार्कोरूबियो आग्रानगरस्य एकस्मिन् पञ्चतारकपथिकाश्रये अल्पविश्रामाय भोजनार्थं च प्रस्थितवान्। ततः अनन्तरं सः आग्रातः जयपुरनगराय प्रस्थितः भविष्यति। प्राप्तसूचनानुसारं होटलतः मार्कोरूबियो स्वकीयवाहनश्रेण्या सह प्रायः १२:३० वादने खेरीयाविमानस्थलम् उपगमिष्यति तथा अपराह्णे १:०० वादने जयपुरनगराय विमानयात्रां करिष्यति।
अमेरिकीविदेशमन्त्रिणः आगराभ्रमणस्य समये अमेरिकीसुरक्षादलस्य सह आग्रापुलिसप्रशासनाभ्यां पर्याप्तसुरक्षाव्यवस्था कृता। गुप्तचरसंस्थाः अपि सतर्काः आसन्। खेरीयाविमानस्थलात् ताजमहलपर्यन्तं तथा ताजमहलतः अमरविलासहोटलपर्यन्तं सर्वत्र पुलिसबलस्य नियुक्तिः कृता आसीत्।
Hindusthan Samachar / Dheeraj Maithani