भाजपा कार्यकर्तारः संगठनस्य सर्वतो महाशक्तिः : सूर्य प्रताप शाही
-संगठने, रणनीतौ बूथ प्रबंधने च कार्यकर्तृभ्योऽमिलत् प्रशिक्षणम् -कुमारगंजे भाजपायाः द्विदिवसीयं प्रशिक्षण शिविरं शुभारब्धम् अयोध्या, 25 मईमासः (हि.स.)। भारतीय जनता पार्टी इत्यस्य इतिहासः केवलं राजनैतिकयात्रा नास्ति, अपितु राष्ट्रनिर्माणस्य, सां
प्रशिक्षण


-संगठने, रणनीतौ बूथ प्रबंधने च कार्यकर्तृभ्योऽमिलत् प्रशिक्षणम्

-कुमारगंजे भाजपायाः द्विदिवसीयं प्रशिक्षण शिविरं शुभारब्धम्

अयोध्या, 25 मईमासः (हि.स.)।

भारतीय जनता पार्टी इत्यस्य इतिहासः केवलं राजनैतिकयात्रा नास्ति, अपितु राष्ट्रनिर्माणस्य, सांस्कृतिकचेतनायाः तथा जनसेवायाः आन्दोलनम् अस्ति। तेन कार्यकर्तृभ्यः उक्तं यत् दलस्य रीति-नीतिं विचारधारां च ग्रामे ग्रामे प्रसारयितुमेव प्रत्येकस्य कार्यकर्तुः महत्तमा जिम्मेदारी अस्ति। एतानि वचनानि जनपदस्य प्रभारीमन्त्री सूर्य प्रताप शाही सोमवासरे कुमारगञ्जस्थिते नरेन्द्र देव कृषि विश्वविद्यालय इत्यस्य सभागारे आयोजितस्य भारतीय जनता पार्टी इत्यस्य जनपदीयैककस्य द्विदिवसीयप्रशिक्षणशिविरस्य उद्घाटनसत्रं सम्बोधयन् उक्तवान्।

प्रभारीमन्त्री उक्तवान् यत् भाजपा कार्यकर्तृआधारितः दलः अस्ति, यत्र संगठनं सर्वोपरि मन्यते। तेन उक्तं यत् प्रधानमन्त्रीमुख्यमन्त्रिणोः नेतृत्वे देशः प्रदेशश्च विकासस्य नूतनशिखराणि स्पृशतः, तथा च कार्यकर्तारः सरकारस्य योजनाः उपलब्धीश्च जनतायाः मध्ये प्रसारयितुं सक्रियभूमिकां निर्वहेयुः।

शिविरस्य द्वितीयसत्रे शिक्षकप्रकोष्ठस्य प्रदेशसंयोजकः डा. रंजन शर्मा ‘वैचारिक अधिष्ठान’ इति विषये कार्यकर्तृभ्यः दलस्य मूलविचारधारायाः परिचयं दत्तवान्। तृतीयसत्रे प्रदेशमहामन्त्री तथा एमएलसी गोविन्द नारायण शुक्ला संगठनस्य कार्यपद्धतेः विषये विस्तरेण चर्चां कृतवान्। चतुर्थसत्रे पूर्वजिलाध्यक्षः अवधेश पाण्डेय बादल देशस्य समक्षं विद्यमानानां आव्हानानां विषये स्वविचारान् प्रस्तुतवान्। पञ्चमसत्रे प्रदेशमन्त्री शिव भूषण सिंह बूथप्रबन्धनं निर्वाचनविजयस्य सर्वाधिकमहत्त्वपूर्णम् आधारम् इति निरूपितवान्।

प्रशिक्षणशिविरे जिला प्रभारी डॉ. मिथिलेश त्रिपाठी, जिलाध्यक्षः राधेश्याम त्यागी, कार्यक्रमसंयोजकः अशोक कसौंधन, सहसंयोजकः अखण्ड प्रताप सिंह डिम्पल, विधायकः रामचन्दर यादव, अमित सिंह चौहान, चन्द्रभानु पासवान, पूर्वविधायकः इन्द्र प्रताप तिवारी खब्बू, कमला शंकर पाण्डेय, कृष्ण कुमार पाण्डेय खुन्नू, इं शिवम सिंह, राममोहन भारती, जिला मीडिया प्रभारी सुशील मिश्र, अंजू पाण्डेय, सरोज मिश्र, सुमन पाल इत्यादयः सहिताः जिला, मण्डल, मोर्चा तथा प्रकोष्ठानां पदाधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani