Enter your Email Address to subscribe to our newsletters

बलिया, 25 मईमासः (हि.स.)।
गङ्गा-दशहरा-पावनावसरे रविवासरे जनपदस्य विभिन्नेषु गङ्गा-घाटेषु श्रद्धालूनां विशालः जनसमूहः समागतः। नगरस्य महावीर-घाटे, मालदेपुर-घाटे तथा अन्येषु प्रमुख-घाटेषु लक्षाधिकैः श्रद्धालुभिः गङ्गास्नानं कृत्वा पुण्यलाभः अर्जितः।
रविवासरस्य प्रातःकालात् एव घाटेषु श्रद्धालूनां आगमनम् आरब्धम्, यत् दिनोन्नतेः पर्यन्तं निरन्तरं प्रवृत्तम्। श्रद्धालवः गङ्गायां श्रद्धया स्नानं कृत्वा नगरस्य प्रमुख-मन्दिरेषु पूजाअर्चनां कृतवन्तः तथा परिवारस्य सुखसमृद्ध्यर्थं प्रार्थनाम् अकुर्वन्। सर्वाधिकः जनसमूहः बालेश्वरनाथ-मन्दिरे तथा बाबा-भृगु-मन्दिरे दृष्टः। अनेकस्थलेषु भजन-कीर्तनस्य धार्मिक-कार्यक्रमाणां च आयोजनमपि अभवत्। घाटेषु महिलानां, बालकानां, वृद्धजनानां च विशालसंख्या दृश्यते स्म।
भीषण-उष्णतायाः अपि श्रद्धालूनाम् उत्साहे कापि न्यूनता न दृष्टा। घाटानां समीपे मेलक-सदृशः वातावरणः आसीत्। आपणेषु पूजासामग्रीणां, प्रसादस्य, क्रीडनकानां च क्रयविक्रयः निरन्तरं जातः।
गङ्गा-दशहरां दृष्ट्वा जिलाप्रशासनं पुलिस-विभागश्च पूर्णतया सतर्कौ आस्ताम्। सुरक्षा-व्यवस्थाया दृष्ट्या प्रमुख-घाटेषु पुलिस-बलस्य नियुक्तिः कृता आसीत्। पुलिस-कर्मचारिणः निरन्तरं माल्देपुर-तथा अन्येषु घाटेषु निरीक्षणं कुर्वन्तः जनान् सावधानतां पालनाय अपीलं कुर्वन्तः आसन्। भीड-नियन्त्रणार्थं तथा कस्यापि अप्रिय-घटनायाः निवारणार्थं प्रशासनस्य पक्षतः विशेष-व्यवस्थाः कृताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani