Enter your Email Address to subscribe to our newsletters

नवदिल्ली, २५ मे-मासः (हि.स.)। बीजू-जनता-दलस्य (बीजद) वरिष्ठ-नेता देबाशीष-सामन्तरायः सोमवासरे राज्यसभायाः सदस्यतायाः त्यागपत्रम् अयच्छत्। तेन राज्यसभायाः सभापतये उपराष्ट्रपतये च सीपी-राधाकृष्णन-महोदयाय स्वीयं त्यागपत्रम् समर्पितम्। अस्मात् पूर्वं तेन बीजद-अध्यक्षाय नवीन-पटनायक-महोदयाय पत्रं सम्प्रेष्य पक्षस्य प्राथमिक-सदस्यतायाः अपि त्यागस्य घोषणा कृता आसीत्। तेन पक्ष-नेतृत्वस्य उपेक्षायाः आरोपः कृतः।
नवदिल्ल्यां सभापतये त्यागपत्रं समर्पयित्वा तेन पत्रकारेभ्यः उक्तं यत् अद्य प्रातःकाले तेन बीजद-अध्यक्षाय नवीन-पटनायकाय स्वस्य प्राथमिक-सदस्यतायाः त्यागपत्रं प्रेषितम्। तस्मिन् पत्रे तेन कतिचन कारणानि अपि निर्दिष्टानि। ततः अनन्तरं सः राज्यसभा-स्थानात् अपि स्वीयं त्यागपत्रं दातुं गतवान्।
सामन्तरायः उक्तवान्— “माम् अनुभूयते यत् बीजद-दले मम किमपि भविष्यं नास्ति, यतः पक्षः अद्यापि वीके-पाण्डियन-इत्यस्य प्रभावे सञ्चालितः अस्ति। पक्षस्य निर्वाचन-पराजयस्य विषये नेतृत्वं आत्ममन्थनाय सज्जं नास्ति।”
सः अपि उक्तवान् यत् कस्यचित् अराजनैतिक-व्यक्तेः अत्यधिक-राजनैतिक-दायित्व-प्रदानेन पक्षस्य छविः संघटनं च उभयं क्षतिग्रस्तम् अभवत्।
भारतीय-जनता-पक्षे सम्मिलनस्य सम्भावनायाः विषये तेन उक्तं यत् राजनीतिज्ञरूपेण सः स्वीयान् विकल्पान् उद्घाटितान् एव धारयति तथा शीघ्रमेव स्थितिः स्पष्टा भविष्यति। तेन उक्तं यत् भाजपा तस्य कृते सर्वोत्तमः राजनैतिक-विकल्पः भवितुम् अर्हति।
सामन्तरायः उक्तवान् यत् पूर्व-प्रधानमन्त्री अटल-बिहारी-वाजपेयी-महोदयस्य काले बीजद-पक्षेण भाजपापक्षेण सह गठबन्धन-सर्वकारः सञ्चालितः आसीत्, अतः भाजपापक्षेण सह गमनस्य विषये काचिद् वैचारिकी असहजता नास्ति। तेन उक्तः यत् ओडिशा-राज्ये भाजपा-सर्वकारस्य सत्तायाम् आगमनस्य पृष्ठे बीजद-नेतृत्वस्य त्रुटयः तथा वीके-पाण्डियनस्य भूमिका प्रमुख-कारणरूपेण आसीत्।
तथापि तेन नवीन-पटनायकस्य शासनकालः दूषितः न उक्तः। तेन उक्तं यत् पञ्चविंशति-वर्षीय-शासनकाले प्रशासनिक-स्तरे गम्भीर-विफलताः न आसन्, किन्तु पक्ष-संघटनं दुर्बलं जातम्।
Hindusthan Samachar / Divya Ranjan