Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 25 मईमासः (हि.स.)।
छत्तीसगढ़स्य मुख्यमन्त्री विष्णु देव साय सोमवासरे दिल्ल्यां मुख्यमन्त्रिण्या रेखा गुप्ता निवासे तया सह शिष्टाचारमेलनं कृतवान्।
मुख्यमन्त्री रेखा गुप्ता सामाजिकमाध्यममञ्चे एक्स इत्यत्र लेखितवती यत्, अस्याः भेंटायाः समये उभयराज्ययोः परस्परसहयोगस्य संवर्धनं तथा विकासस्य विविधेषु आयामेषु विस्तृतं सकारात्मकं च विचारविमर्शः अभवत्। उभयराज्ययोः सततविकासः परस्परसहयोगश्च विकसितभारतस्य अस्माकं सामूहिकलक्ष्यस्य अधिकं वेगं प्रदास्यतः।
अन्यच्च मुख्यमन्त्री विष्णु देव साय अपि एक्स इत्यत्र लेखितवान् यत्, नवदिल्ल्यां प्रवासस्य समये अद्य मुख्यमन्त्रिण्या रेखा गुप्तया सह मुख्यमन्त्रिनिवासे शिष्टाचारभेटा अभवत्। अस्मिन्मेलने अवसरस्य समये विभिन्नेषु समसामयिकविषयेषु, सुशासने, जनकल्याणे तथा राज्ययोर्मध्ये उत्तमसमन्वयसम्बद्धेषु विषयेषु सारगर्भितः विचारविमर्शः अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani