अफ्रीका दिवसे विदेश मंत्री एस. जयशंकराय अददात् शुभकामनाः, सहकारिता दृढीकर्तुं दर्शिता प्रतिबद्धता
नव दिल्ली, 25 मईमासः (हि.स.)। विदेशमन्त्री एस्. जयशङ्करः सोमवासरे ‘अफ्रीकादिवसस्य’ अवसरॆ अफ्रीकीयराष्ट्राणां तत्रत्यनागरिकाणां च शुभकामनाः प्रदत्तवान्। तेन भारतस्य अफ्रीकादेशानां च मध्ये दीर्घकालात् प्रचलितानां सहयोगात्मकसम्बन्धानां अधिकसुदृढीकरणाय
विदेश मंत्री एस. जयशंकर की फाइल फोटो


नव दिल्ली, 25 मईमासः (हि.स.)। विदेशमन्त्री एस्. जयशङ्करः सोमवासरे ‘अफ्रीकादिवसस्य’ अवसरॆ अफ्रीकीयराष्ट्राणां तत्रत्यनागरिकाणां च शुभकामनाः प्रदत्तवान्। तेन भारतस्य अफ्रीकादेशानां च मध्ये दीर्घकालात् प्रचलितानां सहयोगात्मकसम्बन्धानां अधिकसुदृढीकरणाय प्रतिबद्धता पुनरुक्ता।

डाॅ. जयशङ्करः सामाजिकमाध्यममञ्चे एक्स् इति स्वसन्देशे अलिखत्, “समग्रे अफ्रीकामहाद्वीपे अस्माकं सर्वेभ्यः सहभागिभ्यः ‘अफ्रीकादिवसस्य’ शुभाशयाः। अस्माकं सहभागिता साझा-यात्रायाः, पारस्परिकसम्मानस्य, साझा-हितानां च आधारे प्रतिष्ठिता अस्ति। वयं स्वकीयैक्यं सुदृढीकर्तुं तथा स्वकीयसहभागितां अधिकगाढां कर्तुं प्रतिबद्धाः स्मः।”

तेन उक्तं यत् भारतस्य अफ्रीकीयराष्ट्राणां च सम्बन्धाः केवलं कूटनीतिकस्तरपर्यन्तं सीमिताः न सन्ति, अपितु विकासः, स्वास्थ्यं, शिक्षा, व्यापारः, मानवीयसहयोगश्च इत्यादिषु विविधक्षेत्रेषु निरन्तरं सुदृढीभवन्ति।

उल्लेखनीयं यत् भारतसर्वकारेण रविवासरे अफ्रीकामहाद्वीपे शीघ्रं प्रसारमाणस्य इबोलासङ्क्रमणस्य निवारणार्थं मानवीयसहायतारूपेण चिकित्सासामग्रीः सुरक्षाकिट्-समूहाश्च प्रथमवारं प्रेषिताः आसन्। एषा सहायता अफ्रीकारोगनियन्त्रणनिवारणकेन्द्राय (अफ्रीका सीडीसी) प्रेषिता अस्ति।

भारतस्य पक्षतः प्रेषिता एषा सहायता अफ्रीकीयराष्ट्रैः सह वर्धमानसहयोगस्य तथा वैश्विकस्वास्थ्यसङ्कटकाले मानवीयसहयोगस्य प्रतीकरूपेण दृष्टा भवति।------------

Hindusthan Samachar / Dheeraj Maithani