शैक्षिक-भ्रमणे छात्रैः कृषि-उत्पादानां विपणन-भण्डारण-प्रक्रिया ज्ञाता
मण्डीनगरम्, २५ मे-मासः (हि.स.)। मण्डी-जनपदस्य गोहर-क्षेत्रस्थितेन (गुडाहरी) औद्यानिकी-वानिकी-महाविद्यालयेन थुनाग-संस्थया बीएससी (ऑनर्स) हॉर्टिकल्चर तथा बीएससी (ऑनर्स) फॉरेस्ट्री-छात्राणां कृते कृषि-उत्पादानां विपणन-भण्डारण-प्रक्रियायाः अध्ययनं कारि
नलसर में शैक्षणिक भ्रमण के दौरान छात्र।


मण्डीनगरम्, २५ मे-मासः (हि.स.)। मण्डी-जनपदस्य गोहर-क्षेत्रस्थितेन (गुडाहरी) औद्यानिकी-वानिकी-महाविद्यालयेन थुनाग-संस्थया बीएससी (ऑनर्स) हॉर्टिकल्चर तथा बीएससी (ऑनर्स) फॉरेस्ट्री-छात्राणां कृते कृषि-उत्पादानां विपणन-भण्डारण-प्रक्रियायाः अध्ययनं कारितम्। छात्राणां कृते एपीएमसी-मण्डी तथा एफसीआई-नालसर-स्थानयोः एकदिवसीयः शैक्षिक-भ्रमण-कार्यक्रमः आयोजितः।

अस्मिन् भ्रमणे छात्रैः फल-शाकादीनां विपणनस्य विविध-प्रक्रियाः, ई-एनएएम (राष्ट्रीय-कृषि-विपणम्) प्रणाली तथा एफसीआई-कोष्ठागारेषु धान्य-प्रबन्धन-भण्डारण-पद्धतयः च ज्ञाताः। छात्रैः सह महाविद्यालयस्य वैज्ञानिकाः डॉ.ज्योति-चौधरी, डॉ.कल्पना-ठाकुर:, डॉ.सरिता-देवी तथा डॉ.रजत-सिंहः अपि उपस्थिताः आसन्।डॉ.ज्योति-चौधरी उक्तवती यत् अस्य भ्रमणस्य मुख्य-उद्देश्यं छात्रेभ्यः कृषि-उत्पादानां विपणन-भण्डारणयोः सम्यक्-अवबोधनं प्रदातुम् आसीत्।

Hindusthan Samachar / अंशु गुप्ता