भारतं भयं प्रसारयितुं न शक्नोति, अर्थव्यवस्था दृढा : सीतारमणः
मुंबई, 25 मईमासः (हि.स)। निर्मला सीतारमण सोमवासरे पश्चिमएशियासंकटस्य मध्ये ३एफ—ईंधन, उर्वरक तथा विदेशिमुद्रा—इत्येषु अधिकं ध्यानं दातुम् आह्वानं कृतवती, तथा च घरेलू अर्थव्यवस्था अद्यापि सुदृढा वर्तते इति विषये बलं दत्तवती। तया सार्वजनिकक्षेत्रीयउ
सिडबी की 37वीं वर्षगाठ कार्यक्रम को संबोधित करते वित्त मंत्री निर्मला सीतारमण


सिडबी की 37वीं वर्षगाठ कार्यक्रम को संबोधित करते वित्त मंत्री निर्मला सीतारमण


मुंबई, 25 मईमासः (हि.स)।

निर्मला सीतारमण सोमवासरे पश्चिमएशियासंकटस्य मध्ये ३एफ—ईंधन, उर्वरक तथा विदेशिमुद्रा—इत्येषु अधिकं ध्यानं दातुम् आह्वानं कृतवती, तथा च घरेलू अर्थव्यवस्था अद्यापि सुदृढा वर्तते इति विषये बलं दत्तवती। तया सार्वजनिकक्षेत्रीयउपक्रमान् प्रति आग्रहः कृतः यत् ते सूक्ष्मलघुमध्यमोद्यमेभ्यः (एमएसएमई) देयकप्रदाने ४५ दिवसानां समयसीमातः अधिकं विलम्बं न कुर्वन्तु।

केन्द्रीयवित्तमन्त्री मुंबई नगरे भारतीय लघु उद्योग विकास बैंक (सिडबी) इत्यस्य सप्तत्रिंशत्तमस्थापनादिवसस्य कार्यक्रमं सम्बोधयन्ती एतद् उक्तवती। निर्मला सीतारमण उक्तवती यत् भारतं भयप्रसारस्य जोखिमं स्वीकर्तुं न शक्नोति, अपितु जनानां मध्ये विश्वासः जागरयितव्यः। तया देशवासिनः प्रति आग्रहः कृतः यत् ते भयप्रसारात् परिहरेयुः, अपितु जनानां विश्वासवर्धने ध्यानं कुर्वन्तु।

वित्तमन्त्री उक्तवती यत् भारतस्य आर्थिकचुनौतयः मुख्यतया बाह्यस्वभावयुक्ताः सन्ति, विशेषतः सुवर्णम्, ईंधनम् तथा उर्वरकाणां आयातार्थं विदेशिमुद्रायाः आवश्यकतायाः कारणेन। तया एतदपि उक्तं यत् केचन जनाः निराशाजनकं वातावरणं निर्मातुम् इच्छन्ति। वित्तमन्त्री उक्तवती यत् भारतं निरन्तरं शीघ्रवर्धमानासु प्रमुखार्थव्यवस्थासु अन्यतमं वर्तते, यदा अनेकाः उच्चआवृत्तिसूचकाङ्काः निरन्तरं औद्योगिकमागं तथा आर्थिकगतिं प्रति सङ्केतं कुर्वन्ति।

निर्मला सीतारमण उक्तवती यत् भारतस्य नीतिगतप्रतिक्रिया स्वदेशिविकासस्य संरक्षणार्थं संतुलिता कृता अस्ति। वित्तमन्त्री उक्तवती यत् पेट्रोल तथा डीजल इत्येतयोः उत्पादशुल्ककपातेन राजस्वे १ लक्षकोटिरूप्यकाणां प्रभावः भविष्यति। वित्तमन्त्री उक्तवती यत् कच्चतैलस्य वर्धमानमूल्यानां अतिरिक्तम् उर्वरकाणां मूल्याः अपि “अकल्पनीय” स्तरं प्राप्तवन्तः, यदा सुवर्णस्य उच्चमूल्यानि बाह्यमोर्चायां “कतिपयानि आव्हानानि” उत्पादयन्ति।

वित्तमन्त्री एतस्मिन् विषये अपि बलं दत्तवती यत् एमएसएमई-सम्बद्धेषु स्थगितदेयकेषु निरुद्धानि ८.१ लक्षकोटिरूप्यकाणि तेषां कार्यशीलपूंजीं तथा विकासं प्रभावितवन्ति। तया सार्वजनिकक्षेत्रीयोपक्रमान् प्रति पुनः आग्रहः कृतः यत् ते एमएसएमईभ्यः देयकप्रदाने ४५ दिवसानां समयसीमायाः उल्लङ्घनं न कुर्वन्तु।

---------------