फलता-निर्वाचन-परिणामेन नूतन-राजनैतिक-समीकरणानां संकेताः प्राप्ताः, डायमण्ड-हार्बर-प्रतिमानः निष्प्रभावी जातः
कोलकातानगरम्, २५ मे-मासः (हि.स.)। पश्चिमबङ्गस्य फलता विधानसभा-क्षेत्रे सम्पन्नस्य पुनर्मतदानस्य परिणामैः राज्य-राजनीतौ नूतन-समीकरणानां चर्चाः तीव्राः जाताः। अस्य परिणामस्य आधारे स्पष्टं जातं यत् तृणमूलकांग्रेसस्य सुदृढः अल्पसंख्यक-मताधारः अधुना विव
भाजपा की जीत का जश्न


कोलकातानगरम्, २५ मे-मासः (हि.स.)। पश्चिमबङ्गस्य फलता विधानसभा-क्षेत्रे सम्पन्नस्य पुनर्मतदानस्य परिणामैः राज्य-राजनीतौ नूतन-समीकरणानां चर्चाः तीव्राः जाताः। अस्य परिणामस्य आधारे स्पष्टं जातं यत् तृणमूलकांग्रेसस्य सुदृढः अल्पसंख्यक-मताधारः अधुना विविध-दलेषु विभक्तः दृश्यते। एतेषु भारतीयकम्युनिस्टपक्ष: (मार्क्सवादी), भारतीयराष्ट्रीयकांग्रेस:, इंडियन सेक्युलर फ्रंट तथा हुमायूं-कबीरस्य जनता-उन्नयन-पक्षः इत्यादयः लघु-पक्षा: अपि समाविष्टाः सन्ति।

सुजनचक्रवर्ती इत्यनेन उक्तं यत् अल्पसंख्यक-समुदायः अधुना नूतनं राजनीतिक-आश्रयं अन्विष्यति, यतः तस्य तृणमूल-पक्षस्य भाजपा-विरोधी-सङ्घर्षे विश्वासः न्यूनः दृश्यते। सः उक्तवान् यत् यदा पश्चिमबङ्गे भाजपा सशक्त-वास्तविकता भवति, तथा च जनाः तृणमूलं प्रभावी-विपक्ष-शक्तिरूपेण न पश्यन्ति, तदा स्वाभाविकतया ते अन्य-विकल्पानां दिशि गच्छन्ति।

कुणालघोषेण एतानि कथनानि निराकृतानि, सः उक्तवान् यत् केवलं एक-निर्वाचनस्य आधारे व्यापक-राजनैतिक-परिवर्तनस्य निष्कर्षः न उचितः। तस्य मतं यत् तृणमूल-एव अद्यापि भाजपा-विरोधे सर्वाधिक-सशक्त-राजनैतिक-शक्तिः अस्ति।

फलता-परिणामानन्तरं भाजपा-पक्षः अपि तृणमूलस्य तथाकथित-“डायमण्ड-हार्बर-प्रतिमान”-विषये आक्रमणं तीव्रं कृतवान्। भाजपा-नेतृभिः उक्तं यत् एषः परिणामः अभिषेक बनर्जी इत्यस्य राजनीतिक-प्रभाव-क्षेत्रे संघटनात्मक-अजेयत्वस्य कथनानि दुर्बलयति।

अमितमालवीयेन फलता-परिणामः “डायमण्ड-हार्बर-प्रतिमानस्य पतनम्” इति वर्णितः। सः आरोपितवान् यत् एषः परिणामः भय-हिंसा-राजनैतिक-बल-विरुद्धं जनानां प्रत्युत्तरम् अस्ति।

अपरतः अभिषेक-बनर्जी, यः निर्वाचन-प्रचारात् दूरीभूतः आसीत्, मतगणना-प्रक्रियायाः विषये प्रश्नान् उत्थाप्य निर्वाचन-प्रक्रियायाः विश्वसनीयतां प्रति संशयं प्रकटितवान्।

राजनीतिक-विश्लेषकानां मतम् अस्ति यत् मुख्यः प्रश्नः इदानीं न केवलं एषः परिणामः अपवादः आसीत् वा, अपितु पश्चिमबङ्ग-राजनीतेः व्यापक-पुनर्संरचनायाः प्रारम्भ-सूचना अस्ति वा इति।

विश्लेषकानुसारं भाजपा-पक्षस्य बंगाल-रणनीतिः दीर्घकालं यावत् द्वौ आधारौ आश्रित्य स्थिताः—हिन्दू-मत-ध्रुवीकरणं तथा तृणमूलस्य सामाजिक-समीकरणे भेदनम्। फलता-परिणामः सूचयति यत् प्रथमं लक्ष्यं पर्याप्ततया प्राप्तम्, द्वितीयं च अपि शीघ्रं प्रगतिम् आप्नोति।

उल्लेखनीयम् अस्ति यत् रविवासरे सम्पन्न-मतगणनायां भाजपा-अभ्यर्थी देवांशु-पण्डा एक-लक्ष-अष्ट-सहस्र-मतानां विशाल-अन्तरेण विजयम् अर्जितवान्।

Hindusthan Samachar / Divya Ranjan