Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 25 मईमासः (हि.स.)।केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी सोमवासरे राजस्थाने १०,०६४ किलोमीटरपरिमितानां राष्ट्रीयराजमार्गाणां गुणवत्तां रखरखावस्थितिं च व्यापकतया समीक्षितवान्। तेन एषा समीक्षा मीडिया तथा सामाजिकमाध्यमेभ्यः प्राप्तसूचनानाम् आधारे कृता।
सड़कपरिवहनराजमार्गमन्त्रालयेन उक्तं यत् अत्र आयोजितायां समीक्षोपवेशने केन्द्रीयराज्यमन्त्री अजयटम्टा तथा हर्षमल्होत्रा सहिताः भारतीयराष्ट्रियराजमार्गप्राधिकरणस्य (एनएचएआई), सड़कपरिवहनराजमार्गमन्त्रालयस्य वरिष्ठाधिकारिणः तथा परियोजनाभिः सम्बद्धाः ठेकेदाराः उपस्थिताः आसन्।
संगोष्ठ्यां गडकरी परियोजनानां समये पूर्णतां, गुणवत्तामानदण्डानां कठोरतया पालनं तथा स्थायिनः प्रभाविशालिनः राजमार्गाधारसंरचनाविकासार्थम् उन्नतप्रौद्योगिकीप्रयोगस्य उपरि बलम् अददात्। तेन उक्तं यत् सुदृढः राजमार्गसंजालः सम्पर्कसुविधावृद्धौ, आर्थिकक्रियाकलापानां गतिवर्धने, यात्रिकाणां सुविधासुधारणे च महत्वपूर्णां भूमिकां निर्वहति।
तेन अधिकारिभ्यः वर्षाकालात् पूर्वम् आवश्यकतयारीकरणं सुनिश्चितुं निर्देशाः दत्ताः। तेन उक्तं यत् सड़कसुरक्षायाः राजमार्गसम्पत्तीनां च दीर्घकालिकसुदृढतां स्थापयितुं पूर्वतयारी, निरोधनात्मकउपायाः, त्वरितप्रतिक्रियाव्यवस्था च विशेषतया ध्यानपूर्वकं कार्यान्वितव्या।
------------
Hindusthan Samachar / Dheeraj Maithani