Enter your Email Address to subscribe to our newsletters

जोधपुरम्, 25 मईमासः (हि.स.)। आईआईटी जोधपुर इत्यस्य वैज्ञानिकाः मटेरियल् साइन्स् क्षेत्रे भविष्यस्य प्रौद्योगिकीभ्यः नूतनदिशां प्रदातुं समर्थेषु अत्याधुनिकशोधकार्येषु संलग्नाः सन्ति। संस्थानस्य नैनोसेन्स् प्रयोगशालायां परमाणुस्तरे विकसिताः उन्नतसामग्रीभेदाः ऊर्जासंग्रहणम्, स्मार्ट् सेन्सर्, मार्गसुरक्षा तथा आगामीसंततेः इलेक्ट्रॉनिक्स् प्रौद्योगिकीषु क्रान्तिकारिपरिवर्तनानि आनयितुं शक्नुवन्ति।
नैनोसेन्स् प्रयोगशालायाः नेतृत्वं मेटलर्जिकल् एण्ड् मटेरियल्स् इञ्जिनियरिङ्ग् विभागस्य डॉ. प्रणय रंजन कुर्वन्ति। तस्य दलं द्वि-आयामी (२डी) सामग्रीषु अनुसन्धानं करोति, याः केवलं कतिपयपरमाणूनां स्थूलतायाः भवन्ति तथा च यासु असाधारणाः वैद्युतिकाः, प्रकाशीयाः यान्त्रिकगुणाश्च दृश्यन्ते। आईआईटी जोधपुर इत्यस्य एषा प्रयोगशाला विशेषतया बोरोफीन् विषये स्वस्य अनुसन्धानकारणात् राष्ट्रियस्तरे चर्चायां वर्तते।
बोरोफीन् विश्वस्य लघुतमासु अत्यन्तसंभावनाशीलासु च द्वि-आयामीसामग्रीषु गण्यते, यस्य उपयोगः उच्चकार्यक्षमतायुक्तबैटरीषु, सुपरकैपेसिटर् उपकरणेषु, गैस् सेन्सर् उपकरणेषु तथा नैनो-इलेक्ट्रॉनिक्स् क्षेत्रे कर्तुं शक्यते। डॉ. प्रणय रंजन उक्तवान् यत् बोरोफीनस्य धात्विकस्वभावः, लघुसंरचना तथा असाधारणाः इलेक्ट्रॉनिकगुणाः एनं भविष्यस्य ऊर्जासंग्रहणप्रौद्योगिकीषु अत्यन्तोपयोगिनं कुर्वन्ति। तेन उक्तं यत् दलस्य उद्देश्यं केवलं वैज्ञानिकान्वेषणपर्यन्तं सीमितं नास्ति, अपितु एताः सामग्रीः तादृशीषु प्रौद्योगिकीषु परिवर्तयितुं यत् प्रत्यक्षतया समाजस्य उद्योगक्षेत्रस्य च उपयोगाय भवन्ति।
प्रयोगशालातः उद्योगपर्यन्तम् इति आदर्शे कार्यम्
संस्थानस्य प्रमुखासु उपलब्धिषु अनुसन्धानस्य प्रयोगशालातः औद्योगिकोत्पादनपर्यन्तं नयनदिशि क्रियमाणाः प्रयासाः समाविष्टाः सन्ति। नैनोसेन्स् प्रयोगशाला “लैब् टू फैब्” इति आदर्शे कार्यं करोति, यस्य अन्तर्गतं अत्याधुनिकवैज्ञानिकान्वेषणानि व्यावसायिकप्रौद्योगिकीषु परिवर्त्यन्ते। अस्यां दिशि टाटा ग्रुप इत्यस्य न्यू मटेरियल् डिविजनस्य सह रणनीतिकसहयोगः स्थापितः अस्ति, येन बोरोफीन् तथा अन्यासां उन्नतद्वि-आयामीसामग्रीणां विशालस्तरे उत्पादनं कर्तुं शक्येत। एषः सहयोगः रक्षा, ऊर्जासंग्रहण तथा इलेक्ट्रॉनिक्स् क्षेत्रेषु स्वदेशीप्रौद्योगिकीविकासे केन्द्रितः अस्ति।
विद्युत् विना प्रकाशमानं वर्णकं विकसितम्
नैनोसेन्स् प्रयोगशालायाः अपरं महत्त्वपूर्णं योगदानं स्वयम्प्रकाशमानवर्णकप्रौद्योगिकी अस्ति। एतत् वर्णकं दिवाकाले सूर्यप्रकाशं शोषयित्वा रात्रौ स्वयमेव प्रकाशं उत्सर्जयति। अस्य कृते कस्यापि विद्युत्, बैटरी अथवा बाह्यऊर्जास्रोतस्य आवश्यकता न भवति। अस्याः प्रौद्योगिक्याः उपयोगः राजमार्गविभाजकेषु, मार्गसूचकचिह्नेषु, आपत्कालीनसंरचनासु तथा न्यूनऊर्जाव्यययुक्तनगरीयाधारसंरचनासु कर्तुं शक्यते। वैज्ञानिकानां मतानुसारम् एषा प्रौद्योगिकी मार्गसुरक्षायै ऊर्जासंरक्षणाय च अत्यन्तमुपयोगिनी सिद्धा भविष्यति।
Hindusthan Samachar / Dheeraj Maithani