Enter your Email Address to subscribe to our newsletters




-प्रायः 100 कोटिव्ययेन तीव्रतया आकारं गृह्णाति श्री खेड़ापति हनुमान लोक कॉरिडोर
- मंत्रिणा विश्वास सारंगेण दत्त समय सीमायां कार्य पूर्ण कर्तुं निर्देशः
भोपालम्, 25 मईमासः (हि.स.)।
मध्य प्रदेशस्य राजधानी भोपाल नगरे स्थितस्य प्राचीनतमस्य श्रद्धायाः प्रमुखकेन्द्रस्य च श्री खेड़ापति हनुमान मंदिर परिसरस्य निर्माणाधीनस्य ‘श्री खेड़ापति हनुमान लोक कॉरिडोर’ इत्यस्य निर्माणकार्यानां सहकारिता-क्रीडा-युवकल्याणमन्त्री विश्वास कैलाश सारंग सोमवासरे विस्तृतं निरीक्षणं कृतवान्।
अस्मिन् अवसरे मन्त्री सारंगः निर्माणकार्यानां प्रगतिं परीक्ष्य अधिकारिणः निर्देशितवान् यत् कॉरिडोरस्य निर्माणं चरणबद्धरूपेण निर्धारितसमयसीमायां उच्चगुणवत्तया सह पूर्णं क्रियताम्, येन श्रद्धालुभ्यः शीघ्रं उत्तमाः आधुनिकसुविधाश्च उपलब्धाः भवेयुः।
आस्थायाः विरासतायाश्च भव्यस्वरूपं भविष्यति
मन्त्री सारंगः उक्तवान् यत् छोला-क्षेत्रस्थितं श्री खेड़ापति हनुमान मंदिर भोपालस्य धार्मिक-सांस्कृतिक-ऐतिहासिकपहिचानायाः महत्त्वपूर्णं केन्द्रम् अस्ति। शताब्दिभ्यः आरभ्य एतत् मन्दिरं लक्षशः श्रद्धालूनां श्रद्धाकेन्द्रं वर्तते। अस्याः विरासतायाः संरक्षणं कुर्वन् “विरासत् अपि विकासः अपि” इति भावनया सह ‘श्री खेड़ापति हनुमान लोक कॉरिडोर’ इत्यस्य निर्माणं क्रियते। तेन उक्तं यत् एषा परियोजना भोपालस्य सांस्कृतिकधरोहरायाः भव्यस्वरूपं प्रदास्यति तथा आगामिकाले धार्मिकपर्यटनस्य प्रमुखकेन्द्रं भविष्यति।
निर्माणकार्यं समयसीमायां पूर्णं कर्तुं निर्देशाः
निरीक्षणकाले मन्त्री सारंगः लोकनिर्माणविभागस्य नगरनिगमस्य च अधिकारिभ्यः निर्देशान् दत्तवान् यत् निर्माणकार्येषु श्रद्धालूनां, स्थानीयनिवासिनां व्यापारिणां च सुविधानां विशेषध्यानं दीयताम्। तेन स्पष्टतया उक्तं यत् कार्यान्वयने न्यूनतमं विस्थापनं सुनिश्चितं क्रियताम् तथा यातायातव्यवस्था सुव्यवस्थिता भवेत् इति कृते सर्वे आवश्यकपदक्षेपाः स्वीक्रियन्ताम्।
१०० कोटिरूप्यकव्ययेन विकसितः भविष्यति हनुमान लोकः
मन्त्री सारंगः अवदत् यत् प्रायः १०० कोटिरूप्यकव्ययेन विकसितः ‘श्री खेड़ापति हनुमान लोक कॉरिडोर’ महाकाललोकस्य तर्जे आधुनिकस्वरूपेण निर्मीयते। प्रायः २१ एकड् क्षेत्रे विकसितायाम् अस्यां परियोजनायां मन्दिरपरिसरस्य सौन्दर्यीकरणेन सह श्रद्धालूनां कृते सुगमदर्शनव्यवस्था, भव्यकॉरिडोरः, दर्शकदीर्घा, सार्वजनिककार्यक्रमाणां कृते अधोसंरचना, वाहनस्थापनव्यवस्था तथा अन्याः आधुनिकसुविधाः विकसिताः क्रियमाणाः सन्ति।
नागरशैल्या भविष्यति मन्दिरपरिसरस्य विकासः
मन्त्री सारंगः अवदत् यत् मन्दिरपरिसरस्य विकासकार्येषु राजस्थानस्य श्वेतसङ्गमरमरस्य उपयोगं कृत्वा प्राचीननागरशैलीयवास्तुकलायाः विशेषसमावेशः क्रियते। मन्दिरपरिसरे सुन्दरकाण्डस्य झलकं दर्शयन् भव्यः गरिमामयश्च कॉरिडोरः निर्मास्यते, येन श्रद्धालुभ्यः आध्यात्मिकानुभवः प्राप्तः भविष्यति।
दशहरामैदाने विकसिताः भविष्यन्ति आधुनिकसुविधाः
मन्त्री सारंगः उक्तवान् यत् दशहरामैदानस्य मुक्तस्वरूपं संरक्ष्य तत्र दर्शकदीर्घा, विशालमञ्चः, रावणदहनस्थलम् तथा सार्वजनिककार्यक्रमाणां कृते आवश्यकाधोसंरचना विकसिताः क्रियमाणाः सन्ति। सहैव परिसरस्य चतुर्दिक् १५ मीटरविस्तीर्णायाः काङ्क्रीटमार्गस्य निर्माणमपि क्रियते, येन श्रद्धालूनां सामान्यनागरिकाणां च आवागमने सुविधा भविष्यति।
जीविकायाःनवीनाः अवसराः सृज्यन्ते
मन्त्री सारंगः अवदत् यत् परियोजनायाः अन्तर्गतं दर्शकदीर्घायाः अधः १०० अधिकानां दुकानानां निर्माणमपि प्रस्तावितम् अस्ति, येन क्षेत्रस्य व्यापारः प्रोत्साहनं प्राप्स्यति तथा स्थानीयजनानां कृते रोजगारस्य नवीनाः अवसराः सृज्यन्ते। दुकानानि अन्यसुविधाश्च आधुनिकव्यवस्थाभिः युक्तानि भविष्यन्ति।
भोपालस्य नूतना पहिचानं भविष्यति हनुमान लोकः
मन्त्री सारंगः अधिकारिणः निर्देशितवान् यत् निर्माणकार्यानां गुणवत्तायाः विषये कदापि समझौता न क्रियताम् तथा सर्वाः आवश्यकाः औपचारिकताः समये एव पूर्णाः क्रियन्ताम्। तेन उक्तं यत् ‘श्री खेड़ापति हनुमान लोक कॉरिडोर’ भोपालस्य श्रद्धायाः, संस्कृतेः, विकासस्य च प्रतीकरूपेण भविष्यति तथा आगामिकाले एषा परियोजना नगरस्य नूतनपरिचयरूपेण प्रतिष्ठां प्राप्स्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani