कर्नाटके नेतृत्व परिवर्तनस्य अवरोधेषु दिल्लीं प्राप्नोत् मुख्यमंत्री सिद्धारमैया
नव दिल्ली, 25 मईमासः (हि.स.)।कर्नाटकस्य काङ्ग्रेससर्वकारे नेतृत्वपरिवर्तनस्य अटकलानां मध्ये मुख्यमन्त्री सिद्धारमैया दलनेतृत्वस्य आह्वानेन सोमवासरे देहलीनगरम् आगतः। दलनेतृत्वेन तम् मङ्गलवासरे, २६ मई दिनाङ्के, सभायै आहूतम्। अनेन राज्ये पुनरेकवारं ने
कर्नाटक के मुख्यमंत्री सिद्धारमैया नई दिल्ली में पत्रकारों से बात करते हुए।


नव दिल्ली, 25 मईमासः (हि.स.)।कर्नाटकस्य काङ्ग्रेससर्वकारे नेतृत्वपरिवर्तनस्य अटकलानां मध्ये मुख्यमन्त्री सिद्धारमैया दलनेतृत्वस्य आह्वानेन सोमवासरे देहलीनगरम् आगतः। दलनेतृत्वेन तम् मङ्गलवासरे, २६ मई दिनाङ्के, सभायै आहूतम्। अनेन राज्ये पुनरेकवारं नेतृत्वपरिवर्तनस्य अटकलाः तीव्राः अभवन्।

देहलीनगरम् आगत्य सिद्धारमैया पत्रकारैः सह उक्तवान् यत् एआईसीसी महासचिवः केसी वेणुगोपालः तम् २६ मई दिनाङ्के प्रातः ११ वादने सभायै आहूतवान्। सभायाः कार्यसूची तस्मै ज्ञाता नास्ति तथा अटकलाः सर्वदा भवन्ति।

अस्मिन् मध्ये कर्नाटककाङ्ग्रेसदलस्य नेता रमेशबाबू उक्तवान् यत् एषा सभा नियमितकार्यस्य भागः अस्ति। राज्यसभानिर्वाचनस्य अधिसूचना पूर्वमेव प्रकाशिताऽस्ति तथा दलाय त्रयः अभ्यर्थिनः निश्चितुं आवश्यकाः सन्ति। एतदतिरिक्तं कतिपयदिनानन्तरं विधानपरिषद्निर्वाचनम् अपि भविष्यति यस्मिन् सप्त सदस्याः चयननीयाः सन्ति। सहैव कर्नाटकविधानसभायाः अधिवेशनम् अपि आह्वातव्यं वर्तते। एतेषां विषयाणां चर्चार्थं मुख्यमन्त्री उपमुख्यमन्त्री च देहलीनगरम् आहूतौ स्तः।

उल्लेखनीयं यत् कर्नाटके काङ्ग्रेससर्वकारस्य त्रिवर्षपूर्तेः मध्ये एषा सभा महत्वपूर्णा मन्यते। गतार्धद्विवर्षात् डीके शिवकुमारस्य समर्थकाः निरन्तरं दावा कुर्वन्तः आगतवन्तः यत् शीघ्रमेव नेतृत्वपरिवर्तनं भविष्यति तथा तम् मुख्यमन्त्रिपदे नियुक्तं करिष्यन्ति। तथापि अद्यपर्यन्तं तथानाभवत्। दलस्य अन्तः अस्य विषयस्य विषये असमञ्जसता अद्यापि वर्तते।

----------

Hindusthan Samachar / Dheeraj Maithani