Enter your Email Address to subscribe to our newsletters




भोपालनगरम्, २५ मे-मासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री मोहन-यादवः धार-स्थिते भोजशाला-परिसरे भव्यस्य ‘सरस्वती-लोकस्य’ तथा ‘राजा-भोज-शोध-संस्थानस्य’ निर्माणस्य घोषणाम् अकरोत्। तेन उक्तं यत् उच्च-न्यायालयस्य आदेशस्य अक्षरशः पालनं भविष्यति तथा भोजशालायाः गौरवशालिनः अतीतस्य पुनर्जीवनाय सर्वकारः प्रयत्नशीलः अस्ति।
‘जल-गङ्गा-संवर्धन-अभियानस्य’ राज्य-स्तरीय-कार्यक्रमे सम्बोधयन् मुख्यमन्त्री राजा-भोजस्य जल-संरक्षणे योगदानं स्मारितवान्। तेन प्रदेशे जल-संरक्षणार्थं २ लक्षाधिक-कार्याणि प्रचलन्ति इति उक्तम्। कार्यक्रमे ८८ कोटि-रूप्यकाधिक-मूल्यस्य विकास-कार्याणां भूमिपूजनम् अपि कृतम्।
मुख्यमन्त्री उक्तवान् यत् उच्च-न्यायालयस्य निर्णयेन ७५० वर्षीयः संघर्षः सफलः जातः। धार-नगरे नूतन-युगस्य आरम्भः अभवत्। तेन एतस्मै न्यायालयाय आभारः व्यक्तः। प्रदेश-जनतायै अभिनन्दनं दत्त्वा तेन उक्तं यत् धार-जनपदः अधुना औद्योगिक-श्रेण्यां प्रदेशस्य अग्रणी-जनपदरूपेण उद्भूतः अस्ति। राज्य-सर्वकारः माता-वाग्देव्या: आशीर्वादेन विकासस्य मार्गे अग्रे गन्तुं संकल्पितः अस्ति। अत्र भव्यस्य माता-सरस्वती-लोकस्य निर्माणं भविष्यति तथा धार-नगरे ‘राजा-भोज-शोध-संस्थानम्’ अपि निर्मास्यते।
मुख्यमन्त्री भोजशाला-आन्दोलनस्य त्रयाणां बलिदानिनां परिजनेभ्यः पञ्च-पञ्च-लक्ष-रूप्यकाणां आर्थिक-साहाय्यस्य घोषणाम् अकरोत् तथा भोजशालायां माता-वाग्देव्या: पूजनम् अपि कृतवान्।
मुख्यमन्त्री उक्तवान् यत् राजा-भोजेन संरक्षितानि अनेकानि पुरातात्त्विक-महत्त्वस्य स्थानानि भोजपत्राणि च अस्माकं धरोहराः सन्ति। तेन भोपालस्य समीपे भोजपुरे विश्वस्य बृहत्तम-शिवलिङ्गस्य निर्माणं कारितम्। भोपालस्य बृहत्-तडागस्य निर्माण-प्रविधिं दृष्ट्वा विश्वस्य महान्तः विद्वांसः अपि विस्मयं अनुभवन्ति। राजा-भोजेन ४५-पाद-दीर्घस्य लौह-स्तम्भस्य अपि निर्माणं कारितम्, यस्मिन् विषये अरब-इतिहासकारः अलबलूनी उक्तवान् यत् विश्वे एतादृशः स्तम्भः न दृष्टः, यस्मिन् लौह-स्तम्भे कदापि जङ्ग इति न जातः। एषा मालवा-प्रदेशस्य धरोहरः अस्ति। राजा-भोजेन कवि-सम्मेलनम् अपि आयोजितम् तथा कवीनां प्रत्येक-रचनायै सुवर्ण-इष्टिकया सम्मानं कृतम्। अद्यापि राजा-भोजस्य अतीत-घटनाः सर्वान् गौरवान्वितान् कुर्वन्ति। वीरता, धीरता, पराक्रमशीलता तथा गाम्भीर्यस्य मापदण्डेषु तस्य समकालिकः कश्चन राजा समीपे न दृश्यते। दक्षिण-भारते तमिलनाडु-प्रदेशस्य समीपे अपि भोज-मन्दिरम् दृश्यते।
Hindusthan Samachar / Divya Ranjan