Enter your Email Address to subscribe to our newsletters





धार-नगरम्, २५ मे-मासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः सोमवासरे धार-नगर-प्रवासस्य समये ऐतिहासिक-भोजशालाम् आगतः। तेन अत्र मातु: वाग्देव्याः पावन-भूमौ स्थिते भोजशाला-मन्दिरे दर्शन-पूजनं कृत्वा सर्वेषां मङ्गल-कल्याणस्य कामना कृता।
मुख्यमन्त्री डॉ.यादवः सोमवासरे मध्याह्ने प्रायः सार्ध-एकवादने भोजशालाम् आगतः। अत्र तेन माता वाग्देव्याः पूजा-अर्चना कृता। अस्मिन् अवसरे सः उक्तवान् यत् एतत् स्थानं अस्माकं सनातन-संस्कृतेः स्वाभिमानस्य प्रतीकम् अस्ति। मातु: वाग्देव्याः आशीर्वादः सदैव मध्यप्रदेशे भवतु।
मुख्यमन्त्रिणः प्रवासं दृष्ट्वा प्रातःकालात् एव भोजशाला-परिसरे नगरस्य प्रमुख-मार्गेषु च सुरक्षायाः कठोर-व्यवस्था कृता आसीत्। भोजशाला-परिसरस्य समीपे आरक्षक-दलं नियुक्तम् आसीत् तथा प्रवेश-व्यवस्था नियन्त्रिता आसीत्। अस्मिन् समये बहुसंख्यया भाजपा-नेतारः, कार्यकर्तारः श्रद्धालवः च उपस्थिताः आसन्।
भोजशाला-कार्यक्रमानन्तरं मुख्यमन्त्री मोतीबाग-चतुष्पथं गमिष्यति। अत्र आयोजितायाम् सभायां सः विकास-कार्याणां लोकार्पणं भूमिपूजनं च करिष्यति। सहैव विविध-शासकीय-योजनानां हितग्राहिभ्यः लाभ-वितरणमपि भविष्यति। मुख्यमन्त्रिणः कार्यक्रमः देवी-सागर-तडागे अपि प्रस्तावितः अस्ति। अत्र सः ‘जल-गङ्गा-संवर्धन-अभियानस्य’ तथा ‘गङ्गा-दशहरा’-कार्यक्रमस्य अन्तर्गतं श्रमदानं कृत्वा जल-संरक्षणस्य सन्देशं दास्यति।
मुख्यमन्त्रिणः प्रवासं दृष्ट्वा धार-नगरे विशेष-यातायात-विपथन-व्यवस्था तथा ‘नो-व्हीकल-जोन’ अपि प्रवर्तितम् अस्ति। अनेक-प्रमुख-मार्गेषु गुरु-मध्यम-वाहनानां आवागमनं प्रतिबन्धितम् अस्ति। आरक्षक-प्रशासनेन जनान् वैकल्पिक-मार्गाणां उपयोगाय आह्वानं कृतम्।
/ अंशु गुप्ता