राजगढम्- गंगा दशम्यां जिल्लायाः अनुपमः प्रयत्नः, साइकिल-पदयात्रया दत्तस्य पर्यावरण संरक्षणस्य संदेशः
राजगढ़म्, 25 मईमासः (हि.स.)। मध्यप्रदेशस्य राजगढ़जनपदे गङ्गादशम्याः पावनावसरे सोमवासरे जनपदप्रशासनेन जलगङ्गासंवर्धनाभियानस्य अन्तर्गतं पर्यावरणसंरक्षणस्य स्वच्छजलस्रोतसां च सन्देशं जनजनपर्यन्तं प्रापयितुं विशिष्टा पहल कृता। जनपदे साइकिलरैली, पदयात
गंगा दशमी के  अवसर पर जागरूकता कार्यक्रम आयोजित


राजगढ़म्, 25 मईमासः (हि.स.)।

मध्यप्रदेशस्य राजगढ़जनपदे गङ्गादशम्याः पावनावसरे सोमवासरे जनपदप्रशासनेन जलगङ्गासंवर्धनाभियानस्य अन्तर्गतं पर्यावरणसंरक्षणस्य स्वच्छजलस्रोतसां च सन्देशं जनजनपर्यन्तं प्रापयितुं विशिष्टा पहल कृता। जनपदे साइकिलरैली, पदयात्रा तथा ई-वाहनानां माध्यमेन जागरूकताकार्यक्रमः आयोजितः, यस्मिन् बहुसंख्यकाः जनप्रतिनिधयः, अधिकारिणः, नागरिकाश्च सम्मिलिताः अभवन्। अस्मिन् अवसरे अधिकारिणः जनप्रतिनिधयश्च स्वयम् साइकिलं चालयित्वा इन्धनसंरक्षणस्य स्वस्थजीवनशैल्याः च सन्देशं दत्तवन्तः।

विधायकः यादवः तथा सीईओ डॉ. गढ़पाले स्वयम् साइकिलं चालयित्वा रैलीस्य नेतृत्वम् अकुरुताम्। विद्युद्वाहनैः सहभागीभूताः प्रतिभागिनः जीवाश्मइन्धनस्य न्यूनप्रयोगस्य पर्यावरणानुकूलपरिवहनस्य च प्रोत्साहनार्थं संकल्पम् अकुर्वन्। कार्यक्रमस्य माध्यमेन प्रधानमन्त्री नरेन्द्रमोदिनः हरितऊर्जा-पर्यावरणसंरक्षणसन्देशः अग्रे प्रवर्धितः। पारायणचैक् इत्यस्मात् आरब्धा पदयात्रा नेवजनद्याः तटे उपगत्य श्रमदानेन सह सम्पन्ना अभवत्। जनप्रतिनिधयः, अधिकारिणः, पत्रकाराश्च मिलित्वा नदीतटस्य स्वच्छतां कृत्वा कचरानिष्पादनम् अकुर्वन्। कार्यक्रमस्य समये स्वच्छता, जलसंरक्षणं, सामूहिकजनसहभागिता च इत्येषां सन्देशः प्रदत्तः। अन्ते सर्वेभ्यः स्वच्छताशपथः अपि दत्तः।

कार्यक्रमे विधायकः अमरसिंहयादवः, मुख्यकार्यपालनाधिकारी जनपदपञ्चायत् डॉ. इच्छितगढ़पाले, प्रदेशमहामन्त्री महिलामोर्चा मोनासुस्तानी, अपरकलेक्टर प्रतापसिंहचौहानः, एएसपी केएल्. बंजारे, एसडीएम निधिभारद्वाजः, डिप्टीकलेक्टर डॉ. ज्योतिराजोरे सहिताः अनेके अधिकारिणः उपस्थिताः आसन्। जनपदप्रशासनस्य एषा पहल पर्यावरणसंरक्षणस्य दिशि प्रेरकं उदाहरणं अभवत्।

---------------

Hindusthan Samachar / Dheeraj Maithani