Enter your Email Address to subscribe to our newsletters

गांधीनगरम्, 25 मईमासः (हि.स.)।
गुजरात इत्यस्य मोरबी नगरे राज्यस्य श्रम-कौशलविकास-रोजगारराज्यमन्त्री कांतिलाल अमृतिया पर्यावरणसंरक्षणस्य दिशि अद्वितीयं उदाहरणं प्रस्तुतवान्। मच्छू-डैम-२ इत्यस्य तटे स्थितां १२०० बीघा परित्यक्तभूमिं तेन केवलम् अष्टमासेषु हरितिमया परिवर्त्य विशालं ‘नमो वन’ निर्मितम्। अत्र दशलक्षाधिकाः पौधाः रोपिताः, ये अधुना तीव्रतया वृक्षरूपं धारयन्ति।
नरेन्द्र मोदिनः पञ्चसप्ततितमजन्मदिवसे वर्षे २०२५ तमे भूपेंद्र पटेलेन अस्य ‘नमो वनस्य लोकार्पणं कृतम्। या भूमिः कदाचित् निर्जना अनुपजाऊ च आसीत्, सा अद्य हरितिम्ना शोभते। सद्यःएव स्थानीयनिकायनिर्वाचनात् पूर्वं मुख्यमन्त्री पुनः अस्य वनस्य भ्रमणं कृतवान् तथा आगन्तुकानां सुविधार्थं त्रिकोटिरूप्यकविशिष्टानुदानेन ‘आइकॉनिक रोड’ निर्माणस्य घोषणां कृतवान्।
राज्यसर्वकारस्य सूचनाविभागस्य अनुसारं मोरबी पांजरापोल ट्रस्ट इत्यस्य न्यासी कांतिलाल अमृतिया पर्यावरणसंरक्षणसंकल्पेन अस्य अभियानस्य आरम्भं कृतवान्। तेन उक्तं यत् भूमिः पूर्णतया बंजराभूत्, अतः प्रथमं सा समतलीकृता। बहिःस्थानेभ्यः सहस्रशः टनपरिमिता उपजाऊमृत्तिका गोमयखादं च आनाय भूमिः कृषियोग्या कृता। ततः सम्पूर्णक्षेत्रे वेष्टनं कृत्वा पौधरोपणकार्यं प्रारब्धम्।
अस्मिन् अभियाने प्रायः ५०० जनाः निरन्तरं सप्तत्रिंशद्दिनानि कार्यरताः आसन्। प्रतिदिनं २५ सहस्रात् ३० सहस्रपर्यन्तं पौधाः रोपिताः, अन्ततः दशलक्षपौधरोपणलक्ष्यं सम्पन्नम्। वर्तमानकाले एतेषां पौधानां संरक्षणस्य सिंचनस्य च उत्तरदायित्वं सद्भावना वृद्धाश्रम निर्वहति।
चतुःषष्टिवर्षीयः कांतिलाल अमृतिया हाल एव कर्कटरोगस्य इव गम्भीरव्याधेः अपि सामना कृतवान्। शल्यचिकित्सायाः पञ्च कीमोचिकित्सानां च अनन्तरम् अपि तेन धैर्यं न त्यक्तम्। वर्तमानसमये सः इम्यूनोथेरेपी-चिकित्सां गृह्णाति। तेन उक्तं यत् कर्कटरोगात् स्वास्थ्यलाभानन्तरं तस्मै अनुभूयते यत् प्रकृत्या तस्मै द्वितीयं जीवनं दत्तम्, अधुना सः स्वस्य अवशिष्टजीवनं वृक्षारोपणाय प्राकृतिककृषये च समर्पयितुम् इच्छति।
कांतिलाल अमृतिया सरकारात् मच्छू-डैमस्य परितः स्थितां शासकीयभूमिम् अपि याचितवान्, येन भविष्ये अधिकविस्तृतस्तरे वृक्षारोपणाभियानं चालयितुं शक्येत। तेन पूर्वम् अपि मच्छू-डैमस्य तटे अष्ट चेकडैम-निर्माणेन जलसंरक्षणस्य महत्त्वपूर्णं कार्यं कृतम्। तस्य मतम् अस्ति यत् प्रकृतिसंरक्षणं केवलं पर्यावरणसम्बद्धः विषयः नास्ति, अपितु आगामिपीढीनां भविष्येन सह सम्बद्धः विषयः अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani