Enter your Email Address to subscribe to our newsletters

नवदेहली, २५ मे-मासः (हि.स.)। केन्द्रीय-आयुष-मन्त्री प्रतापरावजाधव: उक्तवान् यत् भारतम् अधुना केवलं स्वास्थ्य-प्रौद्योगिकीनां उपभोक्ता नास्ति, अपितु अल्पव्ययी-नवोन्मेषी-स्वास्थ्य-प्रौद्योगिक्याः वैश्विक-केन्द्ररूपेण उद्भवति। तेन उक्तं यत् विज्ञानस्य उद्योगस्य च मध्ये सुदृढ-सहभागिता “विकसित-भारत” इति लक्ष्यस्य गतिं वर्धयिष्यति।
सः रविवासरे मानेकशॉ-केन्द्रे भारतीयचिकित्सा-अनुसंधानपरिषदा आयोजितं ‘बायोमेडिकल-इनोवेशन-एवं-टेक्नोलॉजी-ट्रान्सफर-कार्यक्रमम्’ सम्बोधयन् आसीत्। अस्य कार्यक्रमस्य उद्देश्यः भारतीय-अनुसन्धानं प्रौद्योगिकीश्च उद्योगैः सह संयोज्य सामान्य-जनान् प्रति प्रापयितुम् आसीत्।
कार्यक्रमे भारतीयचिकित्सा-अनुसंधानपरिषद् प्रथमवारं ‘इनोवेटर-इंडस्ट्री-प्लेटफॉर्म’ इति आरब्धवती तथा ४१ सार्वजनिक-स्वास्थ्य-प्रौद्योगिक्यः उद्योगेभ्यः हस्तान्तरितवती। एतेषु वैक्सीन, निदान-प्रौद्योगिक्यः, चिकित्सकीय-उपकरणानि अन्ये च बायोमेडिकल-समाधानानि समाविष्टानि आसन्। एतासु प्रौद्योगिकीषु टायफाइड्, पैराटायफाइड्, जापानी-इन्सेफेलाइटिस्, टीबी तथा एम-पॉक्स् इत्यादिभ्यः रोगेभ्यः सम्बद्धाः वैक्सीन परीक्षण-प्रौद्योगिक्यश्च समाविष्टाः आसन्।
अतिरिक्तरूपेण प्रथमवारं निष्क्रिय-केएफडी-तथा-चांदीपुरा-वायरसयोः बायोमटेरियल्स् अपि उद्योग-सहभागिभ्यः समर्पितानि, येन वैक्सीन-निर्माणं बायोमेडिकल-अनुसन्धानं च सुदृढं भविष्यति।
अस्मिन् अवसरे नीति-आयोग-सदस्यः गोबर्धनदास: उक्तवान् यत् भारतस्य स्वास्थ्य-प्रौद्योगिकी-क्षेत्रे वैश्विक-नेतृत्वं कर्तुं पूर्णा क्षमता अस्ति, तथा च एषा पहलः नवोन्मेषाय प्रौद्योगिकी-हस्तान्तरणाय च नूतनां दिशां दास्यति।
भारतीयचिकित्सा-अनुसंधानपरिषद: महानिदेशकः राजीवबहल: उक्तवान् यत् “मेडिकल-इनोवेशन-पेटेंट-मित्र” इत्यस्य उद्देश्यं प्रयोगशालायां विकसितम् अनुसन्धानं शीघ्रतया जनान् प्रति प्रापयितुम् अस्ति। कार्यक्रमस्य समये “इण्डियन-बायोमेडिकल-पेटेंट-लैण्डस्केप-रिपोर्ट” तथा “टेक्नोलॉजी-कॉम्पेन्डियम” अपि प्रकाशिते। सहैव १०० अधिकाः नूतन-प्रौद्योगिक्यः प्रदर्शिताः, येषु निदान-प्रणाल्यः, चिकित्सोपायाः, चिकित्सकीय-उपकरणानि च समाविष्टानि आसन्।
Hindusthan Samachar / Divya Ranjan