Enter your Email Address to subscribe to our newsletters

गांधीनगरम्, 25 मईमासः (हि.स.)।गुजरात प्राथमिक शिक्षा चयन समितिद्वारा जिला तथा नगरशिक्षासमितीनां सरकारीप्राथमिकविद्यालयेषु विद्यासहायक, स्पेशल् एजुकेटर् (विशेषशिक्षक) तथा मुख्यशिक्षकस्य आहत्य ३,९६६ पदेषु नियोजनसम्बद्धा आधिकारिकघोषणा कृता अस्ति।
शिक्षाविभागेन स्पष्टतया उक्तं यत् भर्तीप्रक्रिया पूर्णतया पारदर्शिरूपेण आयोजिता भविष्यति। दीर्घकालात् सरकारीनौकरीस्य प्रतीक्षां कुर्वत्सु निर्जीविकायुवकेषु अस्याः घोषणायाः अनन्तरम् उत्साहपूर्णं वातावरणं जातम्। भर्तीसम्बद्धा ऑनलाइन आवेदनप्रक्रिया १ जून् २०२६ दिनाङ्के मध्याह्ने १२ वादनात् प्रारभ्यते, यदा तु आवेदनस्य अन्तिमतिथिः १० जून् २०२६ दिनाङ्के सायं ५ वादनपर्यन्तं निर्धारितम् अस्ति। इच्छुकाः अभ्यर्थिनः निर्धारितसमयसीमायाः अन्तर्गतं ऑनलाइन आवेदनं कर्तुं शक्नुवन्ति।
अभ्यर्थिनां चयनं तेषां शैक्षणिकयोग्यता, शिक्षकपात्रतापरीक्षायां (टीईटी) प्राप्ताङ्काः तथा राज्यसर्वकारस्य वर्तमानभर्तीविधानानां आधारेण क्रियते। आवेदनस्य समये अभ्यर्थिभिः स्वेषां सर्वेषाम् आवश्यकदस्तावेजानां डिजिटल् प्रारूपे अपलोड् करणम् आवश्यकं भविष्यति। ततः अनन्तरं शैक्षणिकमेरिट् आधारेण अन्तिममेरिट्सूची निर्मास्यते तथा चयनिताभ्यर्थिभ्यः जिलाचयनस्य विकल्पः अपि प्रदास्यते।
अस्यां भर्तीप्रक्रियायां दिव्याङ्गाभ्यर्थिभ्यः अपि विशेषावसराः प्रदत्ताः सन्ति। स्पेशल् एजुकेटर् तथा मुख्यशिक्षकपदयोः दिव्याङ्गाभ्यर्थिभ्यः पृथक् आरक्षितस्थानानि निर्धारितानि सन्ति। शिक्षाक्षेत्रे एकस्मिन् एव काले एतावती विशालसंख्यायां भर्तीः निर्गता इति कारणेन राज्यस्य लक्षाधिकयोग्याभ्यर्थिभ्यः एषः सुवर्णावसरः मन्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani