Enter your Email Address to subscribe to our newsletters

जोधपुर-नगरम्, २५ मे-मासः (हि.स.)। मरुधरायाः तपोभूमौ जोधपुर-नगरे सनातन-सभ्यता-संस्कृति-अध्यात्मनः अद्भुत-संगमरूपेण प्रसिद्धा पौराणिकी भोगिशैल-परिक्रमा-यात्रा अद्य आरब्धा, या ३१ मे-मास-पर्यन्तं सञ्चालिता भविष्यति। यात्रायाः समये ५४ अधिक-मन्दिरेषु श्रद्धालवः दर्शन-लाभं प्राप्स्यन्ति। गत-शत-वर्षेभ्यः हिन्दू-सेवा-मण्डलेन जोधपुरे एषा परिक्रमा-यात्रा आयोज्यते।
परिक्रमा-यात्रा-आयोजन-समितेः संयोजकः नरेश-जाजड़ा तथा सचिवः विष्णुचन्द्र-प्रजापतः अवदताम् यत् भोगिशैल-परिक्रमा-यात्रा अद्य हिन्दू-सेवा-मण्डल-कार्यालये घण्टाघर-स्थले ध्वज-पूजनेन सह प्रारब्धा। यात्रा नवी-सडक, सोजती-गेट्, मोहनपुरा-पुलिया, पुलिस-लाइन इत्यादि मार्गेण भाटी-चतुष्पथं प्राप्स्यति। परिक्रमा-ध्वजस्य दिवस-रात्र्योः विश्रामः भाटी-चतुष्पथे भविष्यति।
अनन्तर-दिने २६ मे-मासे परिक्रमा-ध्वजः रिक्तियां-भैरूजी, जलजोग-चतुष्पथः, बारहवीं-रोड्, पाल-रोड्, मसूरिया-बाबा-रामदेव-मन्दिरम्, पाल-लिङ्क्-रोड्, जूना-खेड़ापति-बालाजी, नाइयों-की-बगीची तथा चौपासनी-रोड्-प्रथम-पुलिया इत्यादि मार्गेण चौपासनी-क्षेत्रं गमिष्यति। श्रद्धालूनां दिवस-रात्र्योः विश्रामः चौपासनी-क्षेत्रे भविष्यति।
आयोजन-समितेः कोषाध्यक्षः कैलाश-जाजू उक्तवान् यत् प्रतिदिनं प्रातःकाले परिक्रमा-ध्वजेन सह पदयात्रा प्रारभ्यते।
Hindusthan Samachar / अंशु गुप्ता