मुख्यमंत्रिणः शुभेंदोः ‘जनतामंडपे’उत्पन्नो नियुक्त्यभ्यर्थिनां संमर्दः
कोलकाता, 25 मईमासः (हि.स.)।कोलकातानगरस्य सॉल्टलेकस्थिते भारतीयजनतापक्षस्य कार्यालये सोमवासरे आयोजिते ‘जनतादरबार’ कार्यक्रमे बहुसंख्यकाः रोजगाराभ्यर्थिनः उपस्थिताः अभवन्। मुख्यमन्त्री शुभेन्दुअधिकारीं मिलित्वा स्वसमस्याः निवेदयितुम् अभ्यर्थिनां दीर्
सीएम शुभेंदु का जनता दरबार


कोलकाता, 25 मईमासः (हि.स.)।कोलकातानगरस्य सॉल्टलेकस्थिते भारतीयजनतापक्षस्य कार्यालये सोमवासरे आयोजिते ‘जनतादरबार’ कार्यक्रमे बहुसंख्यकाः रोजगाराभ्यर्थिनः उपस्थिताः अभवन्। मुख्यमन्त्री शुभेन्दुअधिकारीं मिलित्वा स्वसमस्याः निवेदयितुम् अभ्यर्थिनां दीर्घा पङ्क्तिः दृष्टा। भीडनियन्त्रणार्थं सुरक्षाकर्मिभिः अत्यधिकः प्रयासः कर्तव्यः अभवत्।

प्राप्तसूचनानुसारं जीविकाभ्यर्थिनां प्रायः पञ्चदशसंगठनानां प्रतिनिधयः मुख्यमन्त्रिणा सह मेलितुम् आगताः आसन्। एतेषु भर्तीघोटालस्य कारणेन स्वयम् वञ्चिताः इति मन्यमानाः अभ्यर्थिनः, उच्चतमन्यायालयस्य आदेशानन्तरं रोजगारं गमितवन्तः २६ सहस्राधिकाः शिक्षकाः शिक्षाकर्मिणश्च प्रतिनिधिरूपेण सम्मिलिताः आसन्। सर्वे मुख्यमन्त्रिणः समीपे शीघ्रसमाधानस्य मागं कृतवन्तः।

मुख्यमन्त्रीपदे आसीनः भूत्वा शुभेन्दुअधिकारी सामान्यजनानां समस्याश्रवणार्थं तेषां समाधानार्थं च ‘जनतादरबार’ कार्यक्रमस्य आरम्भस्य घोषणा कृतवान्। भारतीयजनतापक्षस्य पक्षतः उक्तं यत् प्रतिमासस्य सोमवासरे प्रातः नववादनात् एकादशवादनपर्यन्तं मुख्यमन्त्री सॉल्टलेकस्थिते पक्षकार्यालये उपस्थितः भविष्यति तथा जनानां परिवादान् श्रोष्यति।

सोमवासरे प्रातः मुख्यमन्त्रिणः आगमनात् पूर्वमेव बहुसंख्यकाः रोजगाराभ्यर्थिनः कार्यालयस्य बहिः समागताः आसन्। एकेन अभ्यर्थिना उक्तं यत् ते महतीं आशां धृत्वा मुख्यमन्त्रिणा सह मिलितुं आगताः सन्ति। तस्य आरोपः आसीत् यत् पूर्वमुख्यमन्त्रिणा सह बहुवारं मिलितुं प्रयत्नः कृतः तथापि कदापि अवसरः न प्राप्तः। तेन उक्तं यत् शुभेन्दुअधिकारी पूर्वमपि तेषां समर्थनं कृतवान् तथा अधुना मुख्यमन्त्री भूत्वाऽपि तेन सह प्रत्यक्षमिलनं सम्भवम् अभवत्। अभ्यर्थिना मागः कृता यत् २६ सहस्रं रोजगारं गमितवत्सु योग्याभ्यर्थिभ्यः न्यायः प्रदातव्यः।

कार्यक्रमे लॉकेट्चटर्जी तथा शशीअग्निहोत्री सहिताः राज्यस्य भारतीयजनतापक्षस्य अनेके नेतारः अपि उपस्थिताः आसन्। मुख्यमन्त्री अभ्यर्थिनां प्रतिनिधिभिः सह बन्दकक्षे संवादं कुर्वन् आसीत्।

गतसोमवासरे अपि एतादृशस्य ‘जनतादरबार’ कार्यक्रमस्य आयोजनम् अभवत्। तस्मिन् समयेऽपि बहुसंख्यकाः जनाः स्वसमस्याभिः सह उपस्थिताः आसन्। अनेके जनाः मुख्यमन्त्रिणा सह प्रत्यक्षमिलनस्य अवसरं प्राप्य सन्तोषं व्यक्तवन्तः तथा समाधानस्य आश्वासनं प्राप्तम् इति दावा कृतवन्तः।

उल्लेखनीयं यत् पश्चिमबङ्गालविधानसभानिर्वाचने बहुमतेन सत्तां प्राप्तवता भारतीयजनतापक्षेण निर्वाचनप्रचारे तृणमूलकाङ्ग्रेससर्वकारस्य विरुद्धं जीविकासंबद्धभ्रष्टाचारस्य विषयः प्रमुखतया उत्थापितः आसीत्। अधुना सत्तायामागत्य रोजगाराभ्यर्थिनां समस्यासमाधानार्थं नूतनसर्वकारः कानि पदानि स्वीकरिष्यति, अस्मिन् विषये सर्वेषां दृष्टिः स्थिरा अस्ति।

Hindusthan Samachar / Dheeraj Maithani