Enter your Email Address to subscribe to our newsletters

वाराणसी-नगरम्, २५ मे-मासः (हि.स.)। अन्तर-विश्वविद्यालय-अध्यापक-शिक्षा-केन्द्रे ‘फ्रॉम-डेटा-टू-इनसाइट्स : स्टैटिस्टिकल-एनालिसिस-विथ-फ्री-एण्ड-एआई-ड्रिवन-टूल्स’ इति विषयिण्यां षड्दिवसीय-लघु-संगोष्ठ्यां राष्ट्रीय-शैक्षिक-योजना-प्रशासन-संस्थानस्य कुलाधिपतिः प्रो.रामा-शङ्कर-दुबे उक्तवान् यत् शिक्षा-व्यवस्था सदैव समाजस्य आवश्यकतानां परिवर्तमान-परिस्थितीनां च अनुरूपा उत्तरदायिनी च भवेत्।
तेन उक्तं यत् शिक्षकान् संकाय-सदस्यान् च एवं सशक्तीकर्तुं आवश्यकं यत् ते विद्यार्थिनः वैश्विक-स्तरीय-दक्षताभिः प्रतिस्पर्धात्मक-क्षमताभिः च युक्तान् कर्तुं समर्थाः भवेयुः। गणितम् प्राचीन-कालात् एव भारतीय-समाजस्य ज्ञान-परम्परायाश्च अभिन्नम् अङ्गम् अस्ति। समये समये विश्वेन अनेकानि तकनीकी-परिवर्तनानि दृष्टानि, अधुना च कृत्रिम-बुद्धिमत्तायाः विवरण-आधारित-तकनीकानां च युगम् अस्ति। अतः शिक्षकाः, शोधकर्तारः, विद्यार्थिन: च कृत्रिम-बुद्धिमत्तायाः अन्येषां आधुनिक-डिजिटल-उपकरणानां च प्रभावी-उपयोगेन विवरणानि अवगन्तुं, तेषां विश्लेषणं कर्तुं, तेषु आधारितान् सार्थक-निष्कर्षान् निष्कासयितुं च क्षमता विकसितुं प्रयतेरन्।
संगोष्ठ्याः शुभारम्भः आईयूसीटीई-संस्थायाः सहायक-प्राध्यापकस्य डॉ.राजा-पाठकस्य मङ्गलाचरणेन अभवत्। ततः अनन्तरं दीप-प्रज्वलनं माता-सरस्वत्याः महामना-पण्डित-मदन-मोहन-मालवीयस्य च प्रतिमायाः समक्षं पुष्पाञ्जलिः अर्पिता। संगोष्ठ्यां राष्ट्रीय-शैक्षिक-अनुसन्धान-प्रशिक्षण-परिषदः, नवदिल्ली-स्थितस्य प्रो. गौरव-सिंहस्य अपि विषय-प्रस्तुतीकरणम् अभवत्।
कार्यक्रमस्य अध्यक्षता आईयूसीटीई-निदेशकः प्रो.प्रेम-नारायण-सिंहः अकरोत्।
Hindusthan Samachar / अंशु गुप्ता