असम-विधानसभायाः अधिवेशनस्य तृतीयः दिवसः अद्य अस्ति, यूसीसी-अधिनियम-विधेयकं सदने प्रस्तुतं भविष्यति
गुवाहाटीनगरम्, २५ मे-मासः (हि.स.)। असम-विधानसभायाः प्रचलति अधिवेशनस्य तृतीयः दिवसः सोमवासरे यूनिफॉर्मसिविलकोडविधेयकः सदने प्रस्तुतः भविष्यति। मुख्यमन्त्री डॉ. हिमन्त-बिस्व-सरमा विधानसभायां “यूनिफॉर्म सिविल कोड असम बिल” प्रस्तोष्यन्ति। तथा च मन्त्र
Assam Assembly असम विधानसभा


गुवाहाटीनगरम्, २५ मे-मासः (हि.स.)। असम-विधानसभायाः प्रचलति अधिवेशनस्य तृतीयः दिवसः सोमवासरे यूनिफॉर्मसिविलकोडविधेयकः सदने प्रस्तुतः भविष्यति। मुख्यमन्त्री डॉ. हिमन्त-बिस्व-सरमा विधानसभायां “यूनिफॉर्म सिविल कोड असम बिल” प्रस्तोष्यन्ति।

तथा च मन्त्री अञ्जता-नियोगः महिला-उत्पीड़न-निवारण-अधिनियमेन सम्बद्धं संकल्प-प्रस्तावम् अपि सदने प्रस्तोष्यति।

विधानसभायां महिलानां कृते ३३ प्रतिशत-आरक्षण-प्रदानेन सम्बद्धे संकल्प-प्रस्तावे अपि चर्चा प्रस्तुति: च सम्भाव्यते। अधिवेशनकाले एतेषां महत्वपूर्णानां विधायी-प्रस्तावानां विषये सर्वेषां दृष्टिः निबद्धा अस्ति।

Hindusthan Samachar / Divya Ranjan