Enter your Email Address to subscribe to our newsletters

-उत्तरप्रदेशे 2025-26तमे वर्षे 23सहस्रमिते 500 हेक्टेयर क्षेत्रं सायनैर्मुक्तम्
लखनऊ, 25 मईमासः (हि. स.)।
मुख्यमन्त्रिणा योगिना आदित्यनाथेन सोमवासरे कृषिविभागस्य विविधप्रस्तावितकार्ययोजनानां समीक्षा कृता तथा निर्देशाः दत्ताः यत् खरीफ्–२०२६ इत्यस्य सर्वाः सज्जताः समये एव पूर्णीकृताः स्युः तथा कृषकेभ्यः गुणवत्तायुक्तानि बीजानि, उर्वरकाणि तथा तकनीकीसहायता समये एव उपलब्धा क्रियेत। तेन उक्तं यत् कृषिक्षेत्रे आधुनिकप्रौद्योगिकी, पारदर्शिव्यवस्था तथा फसलविविधीकरणस्य प्रोत्साहनं कृत्वा कृषकाणां आयवृद्धौ विशेषध्यानं दातव्यम्।
मुख्यमन्त्रिणा उक्तं यत् परिवर्तमानवायुमण्डलीयपरिस्थितीनां जलवायुपरिवर्तनस्य च दृष्ट्या दलहन, तिलहन तथा श्रीअन्नकृषेः प्रोत्साहनं करणीयम्। तेन अधिकारिभ्यः निर्देशाः दत्ताः यत् अनावृष्टिसंभावितप्रदेशानां कृते पूर्वमेव कार्ययोजना सज्जा स्थापनीया तथा आवश्यकतायां कृषकेभ्यः वैकल्पिकफसलबीजानि प्रदातव्यानि। तेन निर्देशः दत्तः यत् यूपी इंटरनेशनल ट्रेड शो इत्यस्य अनुकरणेन कृषिविभागेन अपि स्वविशेषतानां अन्ताराष्ट्रियप्रदर्शनी आयोजनीया।
उपवेशने अवगतं यत् खरीफ्–२०२६ कृते ११०.६५ लक्षहेक्टेयरमितस्य क्षेत्रफलस्य तथा ३०२.६२ लक्षमेट्रिक्टनपरिमितोत्पादनस्य लक्ष्यं निर्धारितम् अस्ति। धानोत्पादनस्य लक्ष्यं २२४.२५ लक्षमेट्रिक्टनपरिमितं निर्धारितम्, यदा तु बाजरा, मक्का, अरहर तथा मूंगफली इत्येषां उत्पादनवृद्धेः लक्ष्यं निश्चितम्। बैठके अवगतं यत् खरीफ्–२०२६ कृते २.२९ लक्षक्विण्टलपरिमितबीजवितरणस्य लक्ष्यं निर्धारितम्। अस्मिन् २४ मई २०२६ पर्यन्तं १.२६ लक्षक्विण्टलपरिमितबीजानि उपलब्धानि कृतानि। धानस्य कृते ८० सहस्रक्विण्टलपरिमितबीजवितरणस्य लक्ष्यं निर्धारितम्।
मुख्यमन्त्रिणा उक्तं यत् कृषकेभ्यः समये समये कृषिसम्बद्धा तकनीकीपरामर्शाः उपलब्धाः कारयितव्याः। तेन निर्देशाः दत्ताः यत् टेक्स्टसन्देशैः, सामाजिकमाध्यमैः, दूरदर्शनेन, आकाशवाण्या तथा अन्यैर्माध्यमैः कृषकेभ्यः सूचना प्रेषणीया। सहैव अल्पावधिकालीनानां तथा अनावृष्टिसहनशीलप्रजातीनां उपयोगस्य प्रोत्साहनं करणीयम्। मुख्यमन्त्रिणा उक्तं यत् आगामिजूनमासात् सर्वेषु विकासखण्डेषु चौपालकार्यक्रमाः आयोजयिष्यन्ते। एतेषां चौपालकार्यक्रमाणां सह कृषकमेलाः अपि आयोजनीयाः। कृषकाः प्रत्येकयोजनायाः लाभं प्राप्नुयुः तथा तान् प्रगतिशीलकृषेः सह सम्बद्धं कर्तुं प्रयत्नः क्रियेत। मुख्यमन्त्रिणा उक्तं यत् कृषिविभागाधीनानां सर्वेषां विश्वविद्यालयानां, कृषिविज्ञानकेन्द्राणां, मण्डीनां, वेयरहाउसादीनां च समीपे स्वच्छता भवेत् तथा आवश्यकतानुसारं तेषां रंगलेपनं क्रियेत। एतेषु केन्द्रेषु गमनार्थं सम्यक् संयोजकमार्गव्यवस्था अपि भवेत्।
उपवेशने अवगतं यत् प्रदेशस्य प्रायः १८ तः २० जनपदाः अनावृष्टेः दृष्ट्या संवेदनशीलाः सन्ति। धानस्य मूंगफलीस्य च प्रायः १० लक्षहेक्टेयर् क्षेत्रस्य प्रभावितभवितुं सम्भावनां दृष्ट्वा दलहन, तिलहन तथा श्रीअन्नफसलानां अतिरिक्तबीजानां व्यवस्था क्रियमाणा अस्ति। मुख्यमन्त्रिणा लखनऊ स्थितस्य प्रस्तावितस्य सीडपार्कस्य शीघ्रारम्भस्य दिशि त्वरितनिर्देशाः दत्ताः। उर्वरकाणाम् उपलब्धतां वितरणं च समीक्ष्य निर्देशाः दत्ताः यत् संग्रहणम्, कालाबाजारी तथा उर्वरकविचलनम् इत्येषु प्रभावीनियन्त्रणं स्थापनीयम्। तेन संतुलितोर्वरकप्रयोगस्य जैविकविकल्पानां च प्रोत्साहने बलं दत्तम्।
मुख्यमन्त्रिणा कृषियोजनासु डिजिटलप्रौद्योगिक्याः अधिकप्रयोगस्य निर्देशाः दत्ताः। तेन उक्तं यत् कृषकेभ्यः योजनानां लाभः पारदर्शिरूपेण सरलरीत्या च उपलब्धः क्रियेत। बैठके अवगतं यत् एग्रीस्टैकयोजनायाः अन्तर्गतं २४ मई २०२६ पर्यन्तं २.२९ कोट्यधिककृषकाणां फार्मर् रजिस्ट्री पूर्णा जाता। कृषकपटलस्य मोबाइल- अनुप्रयोगस्य माध्यमेन अपि पंजीकरणं कर्तुं शक्यते।
मुख्यमन्त्रिणा प्राकृतिककृषेः तथा श्रीअन्नोत्पादनस्य प्रोत्साहनस्य निर्देशाः दत्ताः। तेन उक्तं यत् बुंदेलखंड सहितेषु जलसंकटग्रस्तप्रदेशेषु एतादृशयोजनानां प्रभावीक्रियान्वयनं सुनिश्चितं क्रियेत।उपवेशने अवगतं यत् बुंदेलखंडस्य सर्वेषु विकासखण्डेषु गोआधारितप्राकृतिककृषिकार्यक्रमः सञ्चाल्यते। वर्षे २०२५–२६ मध्ये २३ सहस्र ५०० हेक्टेयरक्षेत्रे रसायनमुक्तकृषिः कृता तथा २१ सहस्र ९३४ कृषकाः प्रशिक्षिताः।
मुख्यमन्त्रिणा मक्कोत्त्पादनस्य प्रोत्साहनं तथा तेन सम्बद्धोद्योगानां सह समन्वयस्य सुदृढीकरणस्य निर्देशाः दत्ताः। तेन कृषकेभ्यः तकनीकीसहयोगः, प्रशिक्षणं तथा विपणनसुविधाः प्रदातव्याः इति बलं दत्तम्। मुख्यमन्त्रिणा प्रधानमन्त्री किसान सम्मान निधि योजना तथा प्रधानमन्त्री फसल बीमा योजना इत्येतयोः समीक्षा कृत्वा उक्तं यत् पात्रकृषकेभ्यः योजनालाभः समये एव प्रदातव्यः तथा बीमादावानां निस्तारणे शीघ्रता आनयनीया। उपवेशने अवगतं यत् प्रधानमन्त्री किसान सम्मान निधि योजनायाः अन्तर्गतं अधुना पर्यन्तं प्रदेशस्य कृषकेभ्यः ९९ सहस्र ०३२ कोटिरूप्यकाधिकधनराशिः वितरिता। तथा च प्रधानमन्त्री फसल बीमा योजनायाः अन्तर्गतं वर्षे २०१६–१७ तः २०२५–२६ पर्यन्तं ८०.६१ लक्षकृषकेभ्यः ६४५४.५७ कोटिरूप्यकपरिमिता क्षतिपूर्तिः प्रदत्ता।
कृषिउत्पादानां निर्यातस्य विषये बलं दत्त्वा मुख्यमन्त्रिणा उक्तं यत् वैश्विकमानकानां ध्यानं कृत्वा उत्पादाः सज्जीकर्तव्याः। मुख्यमन्त्रिणा उक्तं यत् मण्डीसमितयः कृषकहिताय आधुनिकाः, पारदर्शिन्यः सुविधायुक्ताश्च निर्मातव्याः तथा कृषिविपणनव्यवस्था आधिक्येन सुदृढीकरणीया।
---------------
Hindusthan Samachar / Dheeraj Maithani