प्रदेशवासिनां सुरक्षाजनसमस्याभ्यः सर्वकारः प्रतिबद्धः -मुख्यमंत्री योगी
-‘जनता दर्शने’अद्य प्रत्येकम् अपेक्षिताय अमिलत् मुख्यमंत्री अशृणोत्समस्याः लखनऊ, 25 मईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे ‘जनता दर्शन’ इत्यस्मिन् कार्यक्रमे प्रदेशस्य विभिन्नजनपदेभ्यः आगतान् फरियादिनः मिलित्वा सर्वेषां समस्याः अश
सीएम योगी


-‘जनता दर्शने’अद्य प्रत्येकम् अपेक्षिताय अमिलत् मुख्यमंत्री अशृणोत्समस्याः

लखनऊ, 25 मईमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे ‘जनता दर्शन’ इत्यस्मिन् कार्यक्रमे प्रदेशस्य विभिन्नजनपदेभ्यः आगतान् फरियादिनः मिलित्वा सर्वेषां समस्याः अशृणोत्। मुख्यमन्त्री उक्तवान् यत् प्रदेशवासिनां सुरक्षा सम्मानश्च विषये शासनस्य पूर्णः बलप्रयत्नः अस्ति। शासनं जनसमस्यानां समुचितसमाधानाय प्रतिबद्धमपि अस्ति। मुख्यमन्त्रिणोऽधिकारिणः निर्देशितवान् यत् निर्धारितसमयसीमायाः अन्तर्गतं समस्याणां निस्तारणं क्रियताम्।

‘जनता दर्शन’ इत्यस्मिन् शिक्षाविभागेन स्वास्थ्यविभागेन च सम्बद्धानि कतिपयानि प्रकरणानि आगतानि। मुख्यमन्त्री सर्वान् आश्वासितवान् यत् शिक्षायाः स्वास्थ्यस्य च विषये शासनस्य विशेषः बलप्रयत्नः अस्ति। प्रदेशस्य प्रत्येकं जनः शिक्षितः भवेत् तथा प्रत्येकस्मै आवश्यकजनाय स्वास्थ्यसुविधाः प्राप्येरन् इति हेतोः शासनं कृतसंकल्पितम् अस्ति। एतयोः विभागयोः सम्बद्धानि सर्वाणि प्रकरणानि संवेदनशीलतया समाधास्यन्ते।

मुख्यमन्त्री योगी उक्तवान् यत् प्रत्येकम् आवश्यकजनस्य समस्यायाः समाधानं अस्माकं शासनस्य प्राथमिकता अस्ति। मुख्यमन्त्रिणोऽधिकारिणः निर्देशितवान् यत् पूर्णसंवेदनशीलतया सुनिश्चितं क्रियताम् यत् विना भेदभावं सर्वेभ्यः न्यायः प्राप्येत। प्रत्येकः पात्रः योजनानां लाभं प्राप्नुयात् तथा आवश्यकजनानां समुचितचिकित्सायाः व्यवस्था भवेत्। मुख्यमन्त्री राजस्वविभागेन विधिव्यवस्थया च सम्बद्धानां प्रकरणानां शीघ्रनिस्तारणस्य अपि निर्देशान् दत्तवान्।

मुख्यमन्त्री ‘जनता दर्शन’ इत्यस्मिन् आगतानां महिलानां समस्याः अशृणोत् तासां कुशलक्षेमं ज्ञातवान् ततः ताभिः सह संवादमपि अकरोत्। सः महिलाभ्यः उक्तवान् यत् अत्यधिकः उष्णकालः प्रवर्तते अतः स्वस्य परिवारस्य वृद्धानां बालानां पुरुषाणां च विशेषतः ध्यानं कुर्वन्तु। अस्मिन् काले अकारणं बहिः गमनात् परिहरत तथा आहारविहारयोः विशेषं ध्यानं ददतु।----------------

Hindusthan Samachar / Dheeraj Maithani