अमेरिकी-विदेशमन्त्री मार्को-रूबियो स्वपत्न्या सह जयपुर-नगरे आमेर-महलम् अपश्यत्
जयपुर-नगरम्, २५ मे-मासः (हि.स.)। अमेरिकी-विदेशमन्त्री मार्को-रूबियो सोमवासरे मध्याह्ने जयपुर-नगरम् आगतः। तेन सह तस्य पत्नी जेनेट-डी.रूबियो तथा अमेरिकी-राजदूतः सर्जियो-गोर: अपि उपस्थितौ स्तः। अमेरिकी-विदेशमन्त्री अपराह्णे प्रायः पादोन-द्विवादने आगर
आमेर महल पहुंचे अमेरिकी विदेश मंत्री


जयपुर-नगरम्, २५ मे-मासः (हि.स.)। अमेरिकी-विदेशमन्त्री मार्को-रूबियो सोमवासरे मध्याह्ने जयपुर-नगरम् आगतः। तेन सह तस्य पत्नी जेनेट-डी.रूबियो तथा अमेरिकी-राजदूतः सर्जियो-गोर: अपि उपस्थितौ स्तः।

अमेरिकी-विदेशमन्त्री अपराह्णे प्रायः पादोन-द्विवादने आगरा-नगरात् जयपुर-विमानस्थानकम् आगतः। रूबियो विमानस्थानकात् परिवार-सहितः प्रत्यक्षम् आमेर-महलम् अगच्छत्। तस्य जलेब-चतुष्पथे तस्य पारम्परिक-राजस्थानी-शैल्या स्वागतं कृतम्। लोक-कलाकारैः तस्य स्वागतार्थं पारम्परिक-घूमर-नृत्यं, कालबेलिया-नृत्यं तथा कच्छी-घोड़ी-नृत्यस्य प्रस्तुति: कृता। मार्गदर्शकेन तस्मै आमेरस्य शीश-प्रासादस्य, गणेश-सेतो:, दीवाने-आम-इत्यस्य, दीवाने-खास-इत्यस्य, सुख-निवासस्य तथा मावठा-सरोवरस्य विषये सूचना प्रदत्ता।

आमेर-दर्शनानन्तरं मार्को-रूबियो हस्ति-ग्रामं तथा सिटी-पैलेस अपि गमिष्यति। रूबियो जयपुर-नगरस्य हेरिटेज-होटल ‘रामबाग-पैलेस’ इत्यत्र रात्रि-विश्रामं करिष्यति। अस्य प्रवासस्य विषये प्रशासनं सुरक्षाविभागा: च सतर्का: सन्ति। रूबियो एकदिवसं स्थित्वा मङ्गलवासरे प्रातः प्रायः षट्-वादन-अर्धे देहली-नगराय प्रस्थितः भविष्यति।

Hindusthan Samachar / Divya Ranjan