Enter your Email Address to subscribe to our newsletters

जोधपुर-नगरम्, २५ मे-मासः (हि.स.)। गङ्गा-दशहरा-पर्वणः पावन-अवसरे सोमवासरे ‘वन्दे-गङ्गा-जल-संरक्षण-जन-अभियानम्-२०२६’ इत्यस्य जनपद-स्तरीय-शुभारम्भः रावतों-का-बास-स्थिते बाईजी-तडागे आयोजितः। अस्मिन् कार्यक्रमे संसदीय-कार्य-विधि-विधिक-कार्य-मन्त्री जोगाराम-पटेलः मुख्य-अतिथिरूपेण उपस्थितः आसीत्। कार्यक्रमस्य शुभारम्भः पूजार्चना-दीप-प्रज्वलनाभ्यां सह अभवत्। अस्मिन् अवसरे राजीविका-समूहस्य महिलाभिः पारम्परिक-वेशभूषायां ‘वन्दे-गङ्गा-कलश-यात्रा’ अपि निष्कासिता तथा जल-संरक्षणस्य जन-भागीदारीयाः च सन्देशः प्रदत्तः।
संसदीय-कार्य-विधि-विधिक-कार्य-मन्त्री जोगाराम-पटेलः कार्यक्रमं सम्बोधयन् उक्तवान् यत् गङ्गा-दशहरायाः अस्य पावन-अवसरे आयोजितं ‘वन्दे-गङ्गा-जल-संरक्षण-जन-अभियानम्’ केवलं कार्यक्रमः न, अपितु प्रकृतेः प्रति कृतज्ञता, सांस्कृतिक-चेतना तथा भावी-वंशानां भविष्यं सुरक्षितं कर्तुं संकल्पः अस्ति। तेन उक्तं यत् भारतीय-संस्कृतौ जलं देवत्वस्य स्वरूपं मन्यते तथा जलं केवलं संसाधनं न, अपितु जीवनस्य पवित्रतायाः समृद्धेः च आधारः अस्ति। माता-गङ्गायाः सन्देशः अपि जल-संरक्षणस्य महत्त्वं प्रतिपादयति।
तेन उक्तं यत् राजस्थान-राज्यं शताब्देभ्यः जल-संरक्षणस्य समृद्ध-परम्पराणां भूमिः अस्ति। अत्रत्याः तडागा:, बावड्यः, झालराः, जोहडाः तथा कूपाः अस्माकं पूर्वजानां दूरदर्शितायाः प्रतीका: सन्ति। अधुना आवश्यकता अस्ति यत् वयं एतां नैसर्गिक-परम्पराम् आधुनिक-विचारेण जन-सहभागितया च सह अग्रे नयेम।
राज्यसभा-सांसदः राजेन्द्र-गहलोतः स्वीय-उद्बोधने उक्तवान् यत् गङ्गा-दशहरा भारतीय-संस्कृतेः महत्त्वपूर्णः पर्वः अस्ति तथा जल-संरक्षणस्य सन्देशः जन-जनं प्रति प्रेषणीयः। तेन जलस्य सदुपयोगस्य प्रत्येक-बिन्दोः संरक्षणस्य च सन्देशः दत्तः।
अस्मिन् अवसरे पाली-सांसदः पीपी-चौधरी, प्रभारी-सचिवः भवानी-सिंह-देथा, जोधपुर-विकास-प्राधिकरणस्य आयुक्तः उत्साह-चौधरी, जनपद-परिषदः मुख्य-कार्यकारी-अधिकारी आशीष-कुमार-मिश्रः, अतिरिक्त-जनपद-उपायुक्त: (प्रथमः) जवाहर-चौधरी, जगदीश-देवासी, श्याम-खीचड़ः, शिवराम-ग्वालः इत्यादयः जन-प्रतिनिधयः, अधिकारिणः तथा बहुसंख्यया सामान्य-जनाः उपस्थिताः आसन्।
Hindusthan Samachar / अंशु गुप्ता