Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 25 मईमासः (हि.स.)।
धर्मनगरे गङ्गादशहरायाः अवसरे गङ्गास्नानार्थं श्रद्धालूनां जनसंमर्दः उत्पन्नः। नगरस्य प्रत्येकस्मिन् घाटे आस्था-श्रद्धा-भक्तीनां अद्भुतः संगमः दृष्टिगोचरः अभवत्। मध्याह्नपर्यन्तं ४५ लक्षाधिकैः श्रद्धालुभिः गङ्गादशहरायाः अवसरॆ गङ्गायां श्रद्धया निमज्जनं कृत्वा सुखसमृद्धेः पापमुक्तेः च कामना कृता।
ब्रह्ममुहूर्तादेव देशस्य विभिन्नराज्येभ्यः आगताः लक्षशः श्रद्धालवः हरकीपैडी सहितेषु गङ्गाघाटेषु स्नानपूजार्चनार्थं समागन्तुं आरब्धवन्तः। “हरहरगङ्गे” “जयमाङ्गङ्गे” इत्यादीनां जयघोषैः सम्पूर्णं वातावरणं भक्तिमयं जातम्। हरकीपैडी इति स्थले प्रभातकालादेव श्रद्धालूनां महान् संमर्दो दृष्टः। रविवासरे यत्र प्रायः २७ लक्षाः श्रद्धालवः गङ्गास्नानं कृतवन्तः, तत्र सोमवासरे प्रातः गङ्गारत्याः अनन्तरमेव श्रद्धालूनां संख्या १६ लक्षपर्यन्तं प्राप्ता। मध्याह्नपर्यन्तं एषः आँकडः ४५ लक्षपर्यन्तं गतः।
श्रद्धालूनां विशालसंमर्दं दृष्ट्वा पुलिसप्रशासनेन च कठोरसुरक्षाव्यवस्था कृता आसीत्। सम्पूर्णः मेलाक्षेत्रः ११ क्षेत्रेषु २७ विभागेषु च विभक्तः आसीत्। घट्टेषु, वाहनस्थापनस्थलेषु, प्रमुखमार्गेषु च अतिरिक्तपुलिसबलस्य नियुक्तिः कृता। एतदतिरिक्तं सीसीटीवी कैमरा-यन्त्रैः ड्रोनकैमरा-यन्त्रैः च निगरानी कृता। सुरक्षाव्यवस्थायां पुलिसदलम्, पीएसीदलम्, पैरामिलिट्रीबलम्, विस्फोटकनिरोधकदलम्, डॉगस्क्वायड्-दलम् च अपि नियुक्तम् आसीत्। यातायातव्यवस्थां सुचारुरूपेण स्थापयितुं राजमार्गेषु गुरुवाहनानां प्रवेशः निरुद्धः तथा मार्गपरिवर्तनयोजना प्रवर्तिता। नगरस्य वाहनस्थापनस्थलानां पूर्णतायाः स्थितौ बैरागीपरिसरे स्थले अतिरिक्तवाहनस्थापनव्यवस्था कृता।
एसएसपी नवनीतसिंहः स्वयम् हरकीपैडीम् आगत्य सुरक्षाव्यवस्थानां निरीक्षणम् अकरोत्। प्रातःकाले आरब्धः स्नानक्रमः दिवसभरम् अविरतं प्रवहमानः आसीत्। हरकीपैडी इत्यस्य अतिरिक्तायाः गङ्गायाः अन्येषु सर्वेषु घट्टेषु अपि श्रद्धालूनां महान्संमर्दः आसीत्। गङ्गादशहरायाः अवसरे तीर्थनगरे आश्रमेषु, अखाडासु, मठमन्दिरेषु च विशेषधार्मिककार्यक्रमाः आयोजिताः। जनाः गङ्गास्नानानन्तरं देवदर्शनं दानादिकर्म च कृत्वा सुखसमृद्धेः कामनाम् अकुर्वन्।
धार्मिकमान्यतानुसारं ज्येष्ठमासस्य शुक्लपक्षस्य दशमी तिथौ मातागङ्गा राज्ञः भगीरथस्य तपस्यया प्रसन्ना भूत्वा भगवतः शिवस्य जटाभ्यः पृथिव्यां अवतीर्णा आसीत्। अस्यैव उपलक्ष्ये गङ्गादशहरापर्व मन्यते। मान्यता अस्ति यत् अस्मिन् दिने गङ्गास्नानं दानपुण्यं च करणेन मनुष्यः दशविधानां पापानां मुक्तिं प्राप्नोति। एतदेव कारणं यत् प्रतिवर्षम् अस्मिन् पर्वणि लक्षशः श्रद्धालवः हरिद्वारम् आगच्छन्ति। अस्मिन् दिने दशविधानां वस्तूनां दानस्य अपि विधानम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani