प्रधानमंत्री मोदी सुभाषितं सहकृत्वा सर्वेषां सुख-समृद्धेःहरियाल्याःच कामना कृता
नवदिल्ली, 25 मईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सर्वेषां सुखसमृद्धिसौभाग्यकामनां कुर्वन् संस्कृतस्य एकं सुभाषितं साझा कृतवान्। अद्य सः एक्स-माध्यमे स्वसन्देशे उक्तवान् यत् प्रकृतेः कृपा, सूर्यदेवस्य ऊर्जा, वर्षायाः आशीर्वादः च अस्माकं सर्
प्रधानमंत्री नरेन्द्र मोदी


नवदिल्ली, 25 मईमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी सर्वेषां सुखसमृद्धिसौभाग्यकामनां कुर्वन् संस्कृतस्य एकं सुभाषितं साझा कृतवान्। अद्य सः एक्स-माध्यमे स्वसन्देशे उक्तवान् यत् प्रकृतेः कृपा, सूर्यदेवस्य ऊर्जा, वर्षायाः आशीर्वादः च अस्माकं सर्वेषां जीवनं सुखसौभाग्याभ्यां समृद्धं करोतु।

तस्य कामना अस्ति यत् पृथिव्यां सदा हरितिमा समृद्धिश्च विराजेताम्।

प्रधानमन्त्रिणा एतत् सुभाषितं सहकृतम्—

“शं नो देवः सविता त्रायमाणः शं नो भवन्तुषसो विभातिः।

शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शम्भुः॥”

अस्य सुभाषितस्य अर्थः अस्ति यत् तेजस्वी रक्षकः सवितादेवः अस्मासु कृपां करोतु, उज्ज्वलः सूर्योदयः अस्माकं जीवने सुखसमृद्धी आनयतु, वर्षादेवता पर्जन्यः जनकल्याणस्य रक्षां करोतु। तथा च क्षेत्राणां, सस्यानां, भूमेः च स्वामी सर्वेभ्यः सुखं शान्तिं समृद्धिं च प्रददातु।

---------------

Hindusthan Samachar / Dheeraj Maithani