परमार्थ-त्रिवेणी-घट्टे त्रि-दिवसीय-गंगा-महोत्सवस्य समापनम्
प्रयागराजः, 26 मईमासः (हि.स)। मातुः गंगायाः पृथ्वी-लोके अवतरण-दिवसस्य अवसरे परमार्थ-त्रिवेणी-पुष्पस्य, प्रयागराज-फाउण्डेशनस्य, माता-शारदा-संगीत-समितेः, यमुनापार-लोक-संस्कृति-परिषदश्च संयुक्त-तत्त्वावधाने परमार्थ-त्रिवेणी-घाटे (अरैल-सेल्फी-पॉइण्ट) न
तीन दिवसीय गंगा महोत्सव का समापन


प्रयागराजः, 26 मईमासः (हि.स)। मातुः गंगायाः पृथ्वी-लोके अवतरण-दिवसस्य अवसरे परमार्थ-त्रिवेणी-पुष्पस्य, प्रयागराज-फाउण्डेशनस्य, माता-शारदा-संगीत-समितेः, यमुनापार-लोक-संस्कृति-परिषदश्च संयुक्त-तत्त्वावधाने परमार्थ-त्रिवेणी-घाटे (अरैल-सेल्फी-पॉइण्ट) नैन्यां आयोजितस्य त्रि-दिवसीय-गंगा-महोत्सवस्य तृतीये समापन-दिवसे च माता-गंगायाः पूजन-अर्चन-हवनैः सह वेद-मन्त्राणां सस्वर-उच्चारणस्य मध्ये ऋषि-पुत्रीभिः माता-गंगायाः भव्या आरती कृता।

कार्यक्रमे अतिथिरूपेण प्रदीपः महरा-शास्त्री, भाजपा-नेता शिवशङ्करः दीक्षितः, गंगा-सेव-मञ्चस्य अध्यक्षः डॉ. प्रमोदः शर्मा, दिनेशः तिवारी, महन्तः शुक्राईनाथः योगी इत्यादयः अतिथयः अपि ऋषि-कन्याभिः सह माता-गंगायाः पूजन-अर्चन-आरतीं कृतवन्तः। महोत्सवे आमन्त्रितानां सर्वेषां कलाकाराणाम् अभिवादनं कुर्वन् आयोजक-संस्थानां प्रति कृतज्ञता ज्ञापिता।

हवनेन, पूजनेन, आरत्या, भजनैश्च समग्रं वातावरणं भक्तिमयम् आसीत्। घाटे सहस्राणां संख्यायां श्रद्धालूनां समूहः भक्त्यां आस्थायाञ्च मग्नः दृष्टः। आरतेः अनन्तरं राष्ट्र-गानेन सह अद्यस्य सांस्कृतिक-कार्यक्रमः आरब्धः। यस्मिन् माता-शारदा-संगीत-समित्या नैनी द्वारा लोकप्रियस्य पारम्परिकस्य ढेढ़िया-नृत्यस्य मनोमोहिनी प्रस्तुतिः तथा सुप्रसिद्धस्य गायकस्य आशीषस्य शर्मणः, मोहिन्याः श्रीवास्तवायाः, शानस्य भानोः, कृष्णस्य कुमारस्य सत्यार्थिनः, राधे-राधे-बैण्ड-मुम्बईस्य सूर्य-प्रकाशस्य दुबेस्य च सुमधुरैः भजनैः समग्रं वातावरणं भक्ति-भावेन ओत-प्रोतम् आसीत्।

अस्मिन् अवसरे प्रयागराज-फाउण्डेशनस्य अध्यक्षः शशाङ्कः शेखरः पाण्डेयः, स्वामि-चिदानन्द-सरस्वती-महाराजस्य कृपापात्रः शिष्यः माधवः, प्रकृतिवेदा-वेलनेस-केन्द्रस्य निदेशकः डॉ. पुष्पेन्द्रः सिंहः, माता-शारदा-संगीत-समितेः निदेशकः अभिषेकः सिंहः, द-स्टेप-फाउण्डेशनस्य अध्यक्षः दिलीपः चौधरी, अभिमन्युः मिश्रः आगतानां सर्वेषां अतिथीनाम् अंगवस्त्रेण, रुद्राक्ष-मालया, चन्दन-पादपेन, स्मृति-चिह्नेन च सम्मानितान् कृत्वा तेषाम् अभिनन्दनम् अकुर्वन्।

कार्यक्रमस्य संचालनं कुर्वन् दत्तात्रेयः पाण्डेयः सर्वेभ्यः अतिथिभ्यः अस्य आयोजनं सफलं कर्तुं प्रत्यक्षरूपेण परोक्षरूपेण च येषां योगदानम् आसीत्, तेषां सर्वेषां कृतज्ञतां प्राकटयत्। अस्मिन् अवसरे नीतुः रायः, सीमा-त्रिपाठी, गौरवः त्रिपाठी, प्रदीपः विश्वकर्मा, विजयः कनौजिया, विकासः कुमारः, शाम्भवी-शर्मा, अङ्किता-सिंहः, शालिनी-सिंहः, नितिनः कनौजिया, देवराजः सिंहः, ऋषभः चौरसिया इत्यादयः प्रमुखरूपेण उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Divya Ranjan