Enter your Email Address to subscribe to our newsletters

देशस्य विश्वस्य च इतिहासे २७ मे-मासस्य अनेकाभिः महत्त्वपूर्णाभिः घटनाभिः विशेषं महत्त्वम् अस्ति। अयं दिवसः रूसदेशस्य ऐतिहासिक-सांस्कृतिकदृष्ट्या महत्त्वपूर्णस्य “सेंट पीटर्सबर्ग” इति नगरस्य स्थापना-दिवसत्वेन अपि ज्ञायते। प्रतिवर्षं २७ मे-मासे एतन्नगरं स्वस्य स्थापना-दिवसम् विविधैः सांस्कृतिक-ऐतिहासिक-कार्यक्रमैः सह उत्सवपूर्वकं मन्यते।
“सेंट पीटर्सबर्ग”नगरं नेवा-नद्याः तीरे स्थितं रूसदेशस्य द्वितीयं महत्तमं नगरम् अस्ति। अस्य स्थापना २७ मे-मासे १७०३ तमे वर्षे रूसदेशस्य प्रसिद्धेन शासकेन पीटर-द-ग्रेट-महोदयेन कृता आसीत्। इतिहासविदां मतानुसारं यस्मिन् प्रदेशे एतन्नगरं स्थापितम् आसीत्, सः प्रदेशः पूर्वं स्वीडन-देशस्य नियन्त्रणाधीनः आसीत्। पश्चात् रूसदेशेन युद्धेन एषः भूभागः स्वाधीनः कृतः, कतिपयवर्षाणां अनन्तरं च एषा नगरी स्वराजधानीरूपेण घोषिताभवत्।
प्रायः द्विशतवर्षपर्यन्तं एतन्नगरं रूसीय-साम्राज्यस्य राजनैतिक-प्रशासनिक-क्रियाकलापानां प्रमुखकेन्द्ररूपेण स्थितम्। १९१८ तमे वर्षपर्यन्तं “सेंट पीटर्सबर्ग” रूसदेशस्य राजधानी आसीत्, किन्तु पश्चात् सत्तापरिवर्तनानन्तरं राजधानी मॉस्को-नगरं प्रति स्थानान्तरिता।
सोवियत-शासनकाले अस्य नगरस्य नाम “लेनिनग्राद” इति परिवर्तितम् आसीत्। किन्तु सोवियत-संघस्य विघटनानन्तरं जनमतसंग्रहस्य आधारेण अस्य पुरातनं नाम “सेंट पीटर्सबर्ग” पुनः स्थापितम्।
“सेंट पीटर्सबर्ग” रूसदेशस्य सांस्कृतिक-राजधानी इति अपि कथ्यते। एतन्नगरं स्वस्य ऐतिहासिक-भवनैः, कलाभिः, संग्रहालयैः, सांस्कृतिक-सम्पद्भिः च विश्वे प्रसिद्धम् अस्ति। अस्मिन् नगरे अनेके प्रशासनिक-जनपदाः सन्ति, तथा च अद्यापि एतत् रूसदेशस्य महत्त्वपूर्णानां संस्थानानां सांस्कृतिक-क्रियाकलापानां च प्रमुखकेन्द्रम् अस्ति।
महत्त्वपूर्ण-घटनाचक्रम्
• १७०३ — जार-पीटर-महाराजेन नेवा-नद्याः तटे स्थितस्य रूसदेशस्य सांस्कृतिकराजधानी “सेंट पीटर्सबर्ग” नगरस्य आधारशिला स्थापिताऽभवत्। • १८१३ — अमेरिकादेशेन कनाडादेशस्य फोर्ट-जॉर्ज-क्षेत्रं स्वाधीनं कृतम्। • १८९५ — ब्रिटिश-आविष्कारकेन बर्ट-एक्रेस-महोदयेन चलचित्र-कैमरा-प्रक्षेपकस्य अधिकारः प्राप्तः। • १९०८ — मौलानाहकीमनुरुद्दीनः अहमदिया-मुस्लिम-समुदायस्य प्रथमः खलीफा अभवत्। • १९२१ — ब्रिटिश-नियन्त्रणस्य ८४ वर्षाणामनन्तरम् अफगानिस्तानदेशः सार्वभौमत्वम् अलभत। • १९२७ — चीनदेशस्य गृहयुद्धे जापानी-सेनायाः हस्तक्षेपः अभवत्। • १९३३ — वॉल्ट-डिज्नी-महोदयेन “दि थ्री लिटिल पिग्स” नामिका एनिमेटेड-लघुचलच्चित्रम् प्रकाशितम्। • १९४१ — जर्मन-युद्धपोतः “बिस्मार्क” ब्रिटिश-नौसेनया निमज्जितः। • १९४८ — महात्मा-गान्धी-महोदयस्य हत्यायाः न्यायिक-प्रकरणस्य आरम्भः अभवत्। • १९५१ — बम्बई-नगरे तारापोरवाला-मत्स्यालयस्य उद्घाटनम् अभवत्। • १९५७ — प्रतिलिप्यधिकार-विधेयकाय अनुमोदनं प्राप्तम्। • १९७७ — पैन-एम तथा केएलएम-विमानयोः संघर्षे ५८२ जनाः मृताः। • १९८० — दक्षिण-कोरियादेशस्य आरक्षकेण जनान्दोलनं दमनं कृतम्, प्रायः २००० जनाः मृताः। • १९९१ — ऑस्ट्रियादेशस्य बोइंग-विमाने विस्फोटः अभवत्, २२३ जनाः मृताः। • १९९४ — नोबेल-साहित्य-पुरस्कार-विजेता रूसीय-लेखकः एलेक्ज़ेण्डर-सोल्केनित्सिनः २० वर्षाणां निर्वासनानन्तरं स्वदेशं प्रत्यागच्छत्। • १९९९ — बोत्सवाना-देशस्य सुन्दरी पुले-क्वेलागोव “मिस यूनिवर्स” इति उपाधिं प्राप्तवती। • १९९९ — विश्वस्य महत्तमः पर्यावरण-पुरस्कारः “सोफी-पुरस्कारः” डरमन-हेली तथा थॉमस-केयरी-महोदयाभ्यां प्रदत्तः। • १९९९ — सर्विया-देशस्य राष्ट्रपतिः स्लोबोदान-मिलोसेविचः अन्ताराष्ट्रिय-न्यायाधिकरणेन युद्ध-अपराधी घोषितः। • २००० — फिजी-देशे महेन्द्र-चौधरी-सरकारः पदच्युतः, राष्ट्रपतिः मारा-महोदयेन प्रशासनं स्वीकृतम्। • २००२ — नेपालदेशस्य प्रधानमन्त्री देउबा-महोदयः त्रिवर्षपर्यन्तं दलात् निष्कासितः। • २००५ — दक्षिण-अफ्रीकादेशस्य राजधानी “प्रिटोरिया” इत्यस्य नाम “श्वाने” इति परिवर्तनस्य निर्णयः कृतः। • २००६ — इण्डोनेशियादेशे विनाशकारी-भूकम्पे न्यूनातिन्यूनं २९०० जनाः मृताः। • २००८ — केन्द्र-सर्वकारेण सीमेण्ट-निर्यात-प्रतिबन्धः प्रत्याहृतः। • २०१० — भारतेन उड़ीसा-राज्यस्य चांदीपुर-क्षेत्रे “धनुष” तथा “पृथ्वी-२” नाम्नोः प्रक्षेपास्त्रयोः सफल-परीक्षणं कृतम्। • २०१० — भारतस्य राष्ट्रपति-प्रतिभा-पाटील-महोदयायाः चीनदेशस्य राष्ट्रपति हू-जिन्ताओ तथा प्रधानमन्त्री वेन-जियाबाओ इत्याभ्यां सह साक्षात्कारान्तरं चीनदेशेन संयुक्तराष्ट्र-सुरक्षा-परिषदः स्थायी-सदस्यत्वाय भारतस्य समर्थनं प्रकटितम्। • २०११ — “गूगल” नामकः वैश्विक-अन्तर्जाल-अन्वेषण-यन्त्रः भारतीय-नगराणां मार्गाणां चित्राणि “स्ट्रीट-व्यू” इति सुविधया प्रदर्शयितुं घोषितवान्।
जन्म
• १८९४ — पदुमलाल-पुन्नालाल-बख्शी — प्रसिद्धः आलोचकः निबन्धकारः च। • १९२८ — बिपिन-चन्द्रः — प्रसिद्धः इतिहासकारः। • १९३१ — ओ.एन.वी.कुरुपः — प्रसिद्धः मलयालि-कविः गीतकारः च। • १९३८ — भालचन्द्र-नेमाडे — भारतीयः मराठी-लेखकः, उपन्यासकारः, कविः, समीक्षकः शिक्षाविद् च। • १९५४ — हेमन्त-जोशी — हिन्दी-कविः, पत्रकारः पत्रकारिता-प्राध्यापकः च। • १९५७ — नितिन-गडकरी — भारतस्य उद्योगपतिः भारतीय-जनता-पक्षस्य वरिष्ठ-राजनेता च। • १९६२ — रवि-शास्त्री — प्रसिद्धः क्रिकेट-क्रीडकः तथा समालोचकः। • १९८५ — चिराग-जैनः — प्रसिद्धः कविः पत्रकारः लेखकः च। • २००३ — त्रिशा-जॉली — भारतस्य बैडमिण्टन-क्रीडिका।
निधनम्
• १९१९ — कन्दुकूरी-वीरेशलिंगम् — तेलुगु-भाषायाः प्रसिद्धः विद्वान्, “गद्य-ब्रह्मा” इति नाम्ना विख्यातः। • १९३५ — रमाबाई-अम्बेडकरः — डॉ.भीमराव-अम्बेडकर-महोदयस्य पत्नी। • १९६४ — जवाहरलाल-नेहरू — भारतीय-स्वातन्त्र्य-संग्रामस्य महान् सेनानी स्वतन्त्र-भारतस्य प्रथमः प्रधानमन्त्री च। • १९८३ — सरदार-हुकम-सिंहः — भारतीयः राजनेता पूर्व-लोकसभा-अध्यक्षः च। • १९८६ — अजय-कुमार-मुखर्जी — पश्चिम-बंगाल-राज्यस्य भूतपूर्वः मुख्यमन्त्री। • १९९४ — लक्ष्मण-शास्त्री-जोशी — भारतीय-माराठी-लेखकेषु प्रमुखः। • २००८ — सिडनी-पोलाकः — ऑस्कर-पुरस्कार-विजेता निर्देशकः। • २००९ — लोकनाथ-मिश्रः — भारतीयः राजनेता, अरुणाचल-प्रदेश तथा असम-राज्ययोः राज्यपालः च। • २०१६ — हंगपन-दादा — “अशोक-चक्र”-सम्मानितः भारतीय-सेनायाः वीर-सैनिकः।
महत्त्वपूर्ण-अवसरः
• पण्डित-जवाहरलाल-नेहरू-महोदयस्य पुण्यतिथिः।
Hindusthan Samachar / Dheeraj Maithani