Enter your Email Address to subscribe to our newsletters

कानपुरम्, 26 मईमासः (हि.स.)। एजेन्टिकएआई भविष्यकाले साइबरसुरक्षाचुनौत्यः सामना कर्तुं सुरक्षितडिजिटलव्यवस्थां विकसितुं च महत्वपूर्णां भूमिकां निर्वहिष्यति। एताः वाचः मङ्गलवासरे भारतीयप्रौद्योगिकीसंस्थानस्य आईआईटीकानपुरस्य निदेशकः प्रोफेसर मणीन्द्रअग्रवालः उक्तवान्।
भारतीयप्रौद्योगिकीसंस्थानस्य (आईआईटी) कानपुरस्य सी३आईहब तथा नेशनलफॉरेंसिकसाइंसयूनिवर्सिटी भोपालस्य सहयोगेन साइबरसुरक्षायै एजेन्टिकएआई विषयकः पञ्चदिवसीयसंकायविकासकार्यक्रमः आयोज्यते। एषः कार्यक्रमः २५ जूनतः २९ जूनपर्यन्तं आईआईटीकानपुरस्थिते सी३आईहब इत्यत्र भविष्यति।
कार्यक्रमस्य उद्देश्यं प्रतिभागिभ्यः कृत्रिमबुद्धिमत्त्याधारितानां आधुनिकसाइबरसुरक्षाप्रणालीनां व्यावहारिकज्ञानं प्रदातुम् अस्ति। अस्मिन् साइबररक्षा, डिजिटलफॉरेंसिक, सुरक्षासंचालनकेन्द्रम्, वल्नरेबिलिटीअसेसमेंटएण्डपेनिट्रेशनटेस्टिंग तथा स्वचालितसुरक्षाप्रणालीषु एजेन्टिकएआई इत्यस्य भूमिकाविषये विशेषज्ञैः प्रशिक्षणं प्रदास्यते।
संकायविकासकार्यक्रमः विशेषरूपेण फैकल्टीसदस्यानां, उद्योगविशेषज्ञानां, शोधार्थिनां तथा स्नातकोत्तरविद्यार्थिनां कृते निर्मितः अस्ति। पञ्चदिवसीये पाठ्यक्रमे एजेन्टिकएआईसाइबरसुरक्षायाः मूलअवधारणाः, कृत्रिमबुद्धिमत्त्याधारितएथिकलहैकिंग, साइबरफॉरेंसिक तथा एआईआधारितजांच, स्वचालितसाइबररक्षा तथा एआईआधारितसुरक्षासंचालनकेन्द्रम् इत्यादयः विषयाः समाविष्टाः भविष्यन्ति।
कार्यक्रमः मिश्रितमाध्यमेन आयोज्यते। प्रत्यक्षसहभागितायै ४० आसन्दाः उपलब्धाः सन्ति, येषां चयनं “प्रथममागच्छ प्रथमं प्राप्नुहि” इति आधारेण भविष्यति। कार्यक्रमं सफलतया सम्पन्नवन्तः प्रतिभागिनः भारतीयप्रौद्योगिकीसंस्थानस्य आईआईटीकानपुरस्य सी३आईहब तथा नेशनलफॉरेंसिकसाइंसयूनिवर्सिटी भोपालस्य संयुक्तप्रमाणपत्रं प्राप्स्यन्ति।
Hindusthan Samachar / Dheeraj Maithani