Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 26 मईमासः (हि.स)।
खादीग्रामोद्योगआयोगस्य (केवीआईसी) अध्यक्षः मनोजकुमारः मङ्गलवासरे उक्तवान् यत् केवीआईसी शीघ्रमेव ‘खादीइण्डिया’ उत्पादानां कृते स्वस्य ई-कॉमर्सपोर्टलस्य नूतनसंस्करणं प्रस्तुतं करिष्यति।
नवदिल्लीस्थिते राजघाटस्य गांधीदर्शनपरिसरे अवस्थिते केवीआईसीकार्यालये वित्तवर्षस्य २०२५-२६ अनन्तिमाङ्कान् प्रकाशितवान् मनोजकुमारः उक्तवान् यत् आयोगेन उत्पादन-विक्रय-रोजगारसृजनक्षेत्रेषु नवीनाः कीर्तिमानाः स्थापिताः सन्ति। कुमारः उक्तवान् यत् केवीआईसी अधुना नूतनभारते डिजिटलपरिवर्तनस्य दिशि अग्रे गच्छति। आगामिदिनेषु वयं खादीस्य ई-कॉमर्सपोर्टलं प्रस्तुतं करिष्यामः, यत् आधुनिकं भविष्यति तथा ‘जेनरेशनजेड्’ इत्यस्य कृते उपयुक्तम् अपि भविष्यति। वयं स्वस्य सम्पूर्णं डिजिटलपरिवेशं नूतनरूपेण परिवर्तयामः।
तेन सूचितं यत् शॉपिफाईद्वारा सञ्चालितम् एतद् उन्नतं ई-कॉमर्सपोर्टलं वैश्विकमानकानुसारं भविष्यति तथा उपयोगकर्तृभ्यः श्रेष्ठानुभवं प्रदास्यति। अस्मिन् उत्पादानां सुलभान्वेषणार्थं स्पष्टतया परिभाषिताः श्रेण्यः भविष्यन्ति तथा उपयोगकर्तृभ्यः ‘शॉपदलुक्’ इत्यादयः ‘इण्टरैक्टिव्’ तत्त्वानि अपि भविष्यन्ति। मोबाइल-फर्स्टदृष्टिकोणेन विनिर्मिते अस्मिन् मंचे उच्च-रिजॉल्यूशनयुक्तचित्रैः उत्पादानां श्रेष्ठप्रदर्शनं भविष्यति तथा च भुगतानस्य उन्नतसुविधाः अपि उपलब्धाः भविष्यन्ति। एतदतिरिक्तम् एषः मंचः ब्राण्डस्य कथां अपि अधिकं सशक्तां करिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani