Enter your Email Address to subscribe to our newsletters

ग्वालियरनगरम्, २६ मे-मासः (हि.स.)। मध्यप्रदेशस्य ग्वालियर-जनपदे यूनां कृते रोजगार-अवसरान् उपलब्धान् कर्तुं उद्देश्येन अद्य मंगलवार-दिने प्रातः एकादशवादने गदाईपुरा-रेडीमेड-गारमेंट-प्रांगण-परिसरे स्थिते जनपद-रोजगार-कार्यालये एकदिवसीय-रोजगार-स्वरोजगार-अप्रेटिसशिप-युवा-संगमस्य आयोजनं क्रियते।
जनपद-रोजगार-कार्यालयः, जिला-व्यापार-उद्योग-केन्द्रं तथा शासकीय-औद्योगिक-प्रशिक्षण-शालायाः संयुक्त-तत्त्वावधाने आयोजिते अस्मिन् रोजगार-मेलापके २३ निजी-क्षेत्रीय-निर्माण्य: आकर्षक-वेतन-पैकेज-इत्यनेन नियुक्ति-प्रक्रियायै आगच्छन्ति।
जनपद-रोजगार-कार्यालयेन सूचितं यत् अस्मिन् युवा-संगमे क्विक-आईटी-सॉल्यूशन-इन-कंसल्टेंसी (ग्वालियर), पेटीएम-सर्विस-प्राइवेट-लिमिटेड (ग्वालियरनगरम्), टाटा-स्ट्राइव-स्किल-डेवलपमेंट (ग्वालियरनगरम्), ईगल-सिक्योरिटी (शिवपुरी नगरम्), ए०एस० मोटर्स (ग्वालियरनगरम्), भारत-पे प्राइवेट-लिमिटेड (ग्वालियरनगरम्), एयरटेल प्राइवेट-लिमिटेड (ग्वालियरनगरम्), जमुना ऑटो प्राइवेट-लिमिटेड (मालनपुरनगरम्), एस०आर०एफ० प्राइवेट-लिमिटेड (मालनपुरनगरम्), एच०डी०एफ०सी०, वीवो मोबाइल इंडिया (ग्रेटर नोएडा), निडेक प्राइवेट-लिमिटेड (नीमराणानगरम्), प्लैटिनम एच०आर० सॉल्यूशंस (गुजरातप्रदेश:), चेकमेट सर्विसेज (जामनगरम्), ग्लोबल ऑटोटेक (ग्रेटर नोएडा), गरुण २४×७ सिक्योरिटी सर्विसेज (ग्वालियरनगरम्) इत्यादयः अनेकाः संस्था: सम्मिलिताः सन्ति।
एताभिः संस्थाभिः सिक्योरिटी-गार्ड, ट्रेनी-वर्कर, मशीन-ऑपरेटर, असिस्टेंट-मैनेजर, रिलेशनशिप-मैनेजर, सेल्स-एग्जीक्यूटिव, फील्ड-सेल्स, टेली-कॉलर, ड्राइवर, हेल्पर, स्टोर-कीपर, पर्यवेक्षक:, अप्रेटिस-ट्रेनी, कार्यालय-सहायक इत्यादिषु विभिन्नेषु पदेषु नियुक्ति: क्रियते।
अस्मिन् रोजगार-मेलापके १८ वर्षतः ३५ वर्षपर्यन्तं युवानः भागं ग्रहीतुं शक्नुवन्ति। वेतनमानं १० सहस्रतः ४५ सहस्ररूप्यकपर्यन्तं भविष्यति।
अभ्यर्थिभिः समग्र-आईडी, रोजगार-पञ्जीकरण-सङ्ख्या, शैक्षणिक-प्रमाणपत्रै: जीवनवृत्तेन च सह आगन्तव्यं भविष्यति। यात्रा-भत्ता न प्रदास्यते इति कार्यालयेन सूचितम्।
Hindusthan Samachar / Divya Ranjan