अद्य पूसास्थले प्रधानमन्त्रीमोदिनः केन्द्रितस्य शिवराजसिंहचौहानस्य ‘अपनापन’ इति पुस्तकस्य विमोचनम्
नवदेहली, २६ मे-मासः (हि.स.)। प्रधानमन्त्रीनरेन्द्रमोदिनः केन्द्रितस्य ‘अपनापन’ इति पुस्तकस्य विमोचनम् अद्य नवदेहल्यां भारतीयकृषि-अनुसन्धान-संस्थायाः ‘पूसा’ इत्यस्य भारतरत्न-सी.सुब्रह्मण्यमसभागारे भविष्यति। एषः सभागारः पूसास्थिते राष्ट्रियकृषिविज्ञा
' अपनापन'  का आमुख


नवदेहली, २६ मे-मासः (हि.स.)। प्रधानमन्त्रीनरेन्द्रमोदिनः केन्द्रितस्य ‘अपनापन’ इति पुस्तकस्य विमोचनम् अद्य नवदेहल्यां भारतीयकृषि-अनुसन्धान-संस्थायाः ‘पूसा’ इत्यस्य भारतरत्न-सी.सुब्रह्मण्यमसभागारे भविष्यति। एषः सभागारः पूसास्थिते राष्ट्रियकृषिविज्ञान-परिसरे वर्तते। ‘अपनापन’ केन्द्रीयकृषि-कृषककल्याण-ग्रामीणविकासमन्त्री शिवराज-सिंहचौहानस्य आत्मीय-प्रेरणादायिनी च कृतिः अस्ति। एषा सूचना आधिकारिकविज्ञप्तौ प्रदत्ता।

विमोचनसमारोहे पूर्वप्रधानमन्त्री एच.डी.देवगौडा तथा पूर्वोपराष्ट्रपतिः एम.वेंकैयानायडू च उपस्थितौ भविष्यतः। अस्मिन् कार्यक्रमे अनेके केन्द्रीयमन्त्रिणः, राज्यपालाः, विभिन्नप्रदेशानां मुख्यमन्त्रिणः, समाजसेविनः, लेखकाः, पत्रकाराश्च उपस्थिताः भविष्यन्ति। ‘अपनापन’ इत्यस्मिन् ग्रन्थे चौहानमहाशयेन प्रधानमन्त्रीमोदिना सह विविधभूमिकासु दृष्टान्, शिक्षितान्, आत्मसात्कृतांश्च अनुभवाः सजीवं वर्णिताः। शिवराजसिंहचौहानस्य कथनम् अस्ति यत् एषः केवलं घटनानां विवरणं न, अपितु एकः विचारयात्रा अस्ति। अस्यां यात्रायां संघटनसमर्पणसन्देशानां माध्यमेन नेतृत्वस्य, सेवायाः, राष्ट्रनिर्माणस्य च सूत्राणि प्रकाशन्ते। चौहानः पूर्वं मध्यप्रदेशस्य मुख्यमन्त्री आसीत्।

उल्लेखनीयम् अस्ति यत् अद्यैव दिने २०१४ तमे वर्षे नरेन्द्रमोदी प्रधानमन्त्रीरूपेण कार्यभारम् अङ्गीकृतवान् आसीत्। चौहानमहाशयः ‘एक्स’ माध्यमेन हर्षं प्रकटयन् अलिखत्— “अद्य अस्य यशस्विनः यात्रायाः १२ गौरवपूर्णवर्षाणि सम्पन्नानि। अस्मिन् अवधौ सम्पूर्णः देशः उत्साहेन राष्ट्रगौरवेण च ओतप्रोतः अस्ति। एतानि १२ वर्षाणि भारतस्य नवनिर्माणस्य, जनाकाङ्क्षापूर्तेः, ‘विकसितभारतस्य’ उदयस्य च स्वर्णिमकालखण्डः अभवन्। एतेषु वर्षेषु अन्तिमपङ्क्तौ स्थितस्य जनस्य सशक्तीकरणं तथा ‘अन्त्योदयसंकल्पस्य’ सिद्धिः अभवत्। मोदीसर्वकारेण ‘सबका साथ, सबका विकास’ इति मन्त्रं अनुसृत्य ग्रामाणां, निर्धनानां, कृषकाणां, महिलानां, यूनां च जीवनं परिवर्तितम्।”

तेन पुनः लिखितम्— “आगच्छामः, वयं सर्वे मिलित्वा अस्य गौरवमयविकासयात्रायाः सहभागी भूत्वा सशक्तसमृद्ध-विकसित-वैभवशालिभारतनिर्माणे स्वीयं योगदानं ददाम। सेवा-सुशासन-नवोत्थान-निर्धन-कल्याणस्य अस्य ऐतिहासिक-अद्वितीययात्रायाः १२ वर्षपूर्त्यवसरे आदरणीयप्रधानमन्त्रिणः हार्दिकमभिनन्दनम्।”

Hindusthan Samachar / Divya Ranjan